________________
मांसं पचेति तेनोक्ता, पक्ष्ये नाऽद्येति साऽब्रवीत् । मया चक्रे तपः सर्वपापाऽऽरम्भविरामतः ॥२१॥
पक्त्वा स्वेनैव भुञ्जाने, मानपुञ्जे ततः शुकः । दध्यौ द्वाभ्यां श्रुता वाग्मे, परं दासी व्यधात्तपः ||२२|| मृगी चेयं वने जन्म, मुधा क्षिपति तन्मया । कर्त्तव्या कीर्त्तिराजस्य, राजपुत्रस्य गेहिनी ॥२३॥ निश्चित्येति दिनं तत्र, स्थित्वा सदयितः शुकः । ययौ वज्रपुरे यत्र, कीर्त्तिराजोऽस्ति राजसूः ॥२४॥ एह्येहि शुकराज ! त्वं, स्वागतं भवतः किल । कीर्त्तिराजे वदत्येवं, शुको नत्वाऽब्रवीदिति ॥ २५॥
त्वदादेशाच्छुकीमेनामादायाऽऽगच्छता मया । प्रत्यासन्नवने दृष्टा, स्त्री दिव्यरूपधारिणी ॥ २६ ॥
ततश्च कीर्त्तिराजेन, शुकेन सहिता नराः । प्रेषितास्तत्र कान्तारे, तामानेतुं क्षणादपि ॥२७॥
मांसाहारे च सा मानपुञ्जे विरक्तमानसा । प्रोक्ता शुकेन हे सुभ्रु !, राजपत्नी भवाऽधुना ॥२८॥ चल वज्रपुरे कीर्त्तिराजस्त्वां स्वीकरिष्यति । भुङ्क्ष्व संसारसौख्यानि, धर्माऽर्थकामभाग् भव ॥२९॥
शुके प्रत्ययिता साऽथ, मानपुञ्जे गतेऽन्यत: । सशुकैः पुरुषैः सार्द्धं, कीर्त्तिराजगृहं ययौ ॥३०॥ पुण्येन वल्लभा साऽभूत्, कीर्त्तिराजस्य सर्वदा । ततो मनसि सा दध्यौ, तदेतत्तपसः फलम् ॥३१॥
तया प्रत्ययमाख्याय, तपसि प्रेरितस्ततः । राजलोको यथाशक्त्या, चतुर्मासे तपो व्यधात् ॥३२॥
अतपसि मानपुञ्जकथा ।
३९७