SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ निष्ठितेषु फलेष्वेष, विश्रब्धान् हरिणांस्ततः । व्यापाद्य बुभुजे मांसं, नित्यशोऽपि स लोलुपः ॥९।। तमाह दासी किं न्वेतान्, विश्वस्तान् हंसि नित्यशः ? । चलाऽन्यत्र पुरे क्वाऽपि, भविता तत्र भोजनम् ॥१०॥ मांसलुब्धस्तु पापीयान्, वनं त्यजति नैष तत् । तल्लुब्धा तदेकप्राणा, न तं त्यजति दास्यपि ॥११॥ एकदा च वने तत्र, शुकद्वन्द्वं कुतोऽपि हि । समागत्योपविष्टं तन्मानपुञ्जाऽऽश्रितं तरुम् ॥१२।। शुकः प्राह शुकीमद्य, चतुर्मासकपर्व तत् । उपवासोऽद्य मे त्वं तु, भोक्ष्यसे यदि भुक्ष्व तत् ।।१३।। शुक्याह तदहं नाऽभिभोक्ष्ये स्थास्याम्युपोषिता । भुज्यमानं सदैवाऽऽस्ते, तत्कार्यं सुदिने तपः ॥१४॥ इति शुकशुकीवाचमाकर्ण्य दास्यचिन्तयत् । अहो ! बत्तयोः पश्य, तिरश्चोर्नियमः कियान् ? ॥१५॥ उत्पन्ना मानुषत्वेऽपि, तपोऽकार्षं कदाऽपि न । पशून् व्यापाद्य खादन्तः, पशवो वयमेव हि ॥१६।। अद्य तपोदिने त्वाभ्यां, कथिते न मया खलु । भोक्तव्यं नाऽपि पत्येऽस्मै, पक्तव्यं मांसमात्मना ॥१७॥ इति निश्चयमादाय, दासी यावत् स्थिताऽस्ति सा । तावद्धन्तुं मृगं मानपुञ्जः कृताऽऽयुधोऽभवत् ॥१८॥ तमाह दासी मा माऽद्य, व्यापादय मृगं हहा !! । कृतं शुकाभ्यामप्यद्य, चतुर्मासीदिने तपः ॥१९॥ तेन वारितवामेन, प्रत्युत क्रौर्यमीयुषा । दास्याः सविधमानीय, मृगो व्यापादितो बलात् ॥२०॥ ३९६ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy