________________
अतपसि मानपुञ्जकथा ।
यस्तु कुर्यान्न शक्त्याऽपि, तपःकर्म सुधर्मकृत् । सोऽपमानपदं गच्छेन्मानपुञ्जपुमानिव ॥१॥ अस्ति पू: कमला नाम, यत्र धर्मरता जनाः । मानपुञ्जाऽभिधोऽत्राऽस्ति, पुमान् गीतप्रियः सदा ॥२॥ द्रव्येणाऽऽकार्य गीतज्ञान्, प्रगायन् गापयत्यसौ । इत्थं सर्वं धनं तेन, भक्षितं गीतमोहिना ॥३।। क्षीणद्रव्यो नृणामग्रे, गायनीभूय गायति । यत्तत्र लभते वित्तं, विटभोज्यं करोति तत् ॥४॥ दासीमेकामथाऽऽदाय, ययौ देशान्तरं प्रति । पुरे ग्रामे परिभ्राम्यन्, गायनत्वेन जीवति ॥५॥ कस्याऽपि राजपुत्रस्य, गीतविश्रम्भमीयुषः । मानपुञ्जेन मुक्तास्रक्, चोरिताऽभूदुरात्मना ॥६॥ राजपुत्रेण विज्ञाय कलावित्त्वाद्धतो नहि । किन्तु निर्वास्य मुक्तोऽथ, लज्जया स ययौ वनम् ।।७।। फलाऽऽहारेण तत्राऽयं, जीवन् दासीयुतो वने । कलगीतेन हरिणानाकर्षति सुदूरतः ।।८।।
अतपसि मानपुञ्जकथा ।
३९५