________________
व्यन्तरेणाऽऽहतो राजा, चक्रन्दोच्चैर्वमन्नसृक् । बभूव च सभालोकः, किमेतदिति भीवृतः ॥४४॥ अथाऽसौ व्यन्तरो यावन्नगरं तावतीं शिलाम् । विकुर्व्य गगने लोकं, भीषयामास दुर्गिरा ॥४५॥ नागकेतुस्ततो दध्यौ, सङ्घोऽस्त्यत्र चतुर्विधः । जिनबिम्बाऽऽगमौकांसि, तद्भाव्येषां क्षयो ध्रुवम् ॥४६॥ उच्चैः प्रासादमारूढः, शिलां स्खलामि पाणिना । इति तां व्यन्तरमुक्तां, तपः शक्त्या दधौ शिलाम् ॥४७॥ व्यन्तरस्तत्तप:शक्तिं, व्यालोक्याऽऽकुलमानसः । एत्य तं प्रणनामोच्चैः, सञ्जहार शिलां च ताम् ॥४८॥ वचनान्नागकेतोश्च, व्यन्तरः शान्तिमीयिवान् । राजानं च पटूकृत्य, द्राग् ययौ स्थानमात्मनः ॥४९॥ तपोलब्ध्या नृपस्याऽपि, नमस्कर्तव्यतां गत: । नागकेतुरथाऽन्येद्युः, श्रीजैनभुवने ययौ ॥५०॥ यथाविधि जिनेन्द्रस्य, पूजां कुर्वन्तमात्मना । पुष्पमध्यस्थितः सर्पस्तं ददंशाऽङ्गुलौ दृढम् ॥५१॥ नागकेतुर्गताऽऽशङ्कस्तं सर्पं न्यस्य कुत्रचित् । जिनेन्द्रमूर्तेः पुरतो, ध्यानमालम्ब्य तस्थिवान् ॥५२॥ पवनविजयाद्धीनं, ममार तन्मनः क्षणात् । घातिकर्मक्षयाज्जातं, केवलज्ञानमस्य च ॥ ५३ ॥ ततः शासनदेव्याऽस्य, चारित्रलिङ्गमर्पितम् । भव्यान् प्रबोधयन् सैष, विजहार भुवस्तले ॥५४॥ इह लोके परलोके यद्दुष्प्रापं च सारभूतं च । तत्तपसा सुलभं स्यात्तपसि यतध्वं ततो भावात् ॥५५॥
३९४
इति तपसि नागकेतुकथा ॥
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।