________________
निःसर्तुं न गृहान्मेऽस्ति, क्षणो यदस्मि वेष्टिता । ईर्ष्यालुपतिनाऽस्या दृक् क्व यातीत्यवलोकिना ॥९॥ परमेको ह्युपायोऽस्ति, प्रेमकार्योऽतिदुष्करः । मत्सौधोपाऽन्ते कूपोऽस्ति, सुरङ्गा तत्र दाप्यताम् ॥१०॥ कूपाऽन्तःपुरुषाः स्थाप्याः, सुरङ्गायां च तारकाः । सार्द्धं कुटुम्बलोकेन, करिष्ये कलहं ततः ।।११।। रुषित्वैकान्तमाश्रित्य, त्यक्त्वा लोकदृशं भृशम् । कूपे तत्र पतिष्यामि, सुरङ्गापुरुषैस्ततः ।।१२।। पतन्त्येवाऽहमादेया, सुरङ्गानिःसृता क्षणात् । एष्याम्यहं कुमारस्य, सौधे सङ्गाऽभिलाषुका ॥१३।। इति सङ्केतमाख्याय, तन्मित्रं च विसृज्य सा । क्रीडित्वा क्षणमुद्याने, ययौ द्राक् सौधमात्मनः ॥१४॥ कृत्रिमं कलहं कृत्वा, केनाऽप्यलक्षिताऽन्यदा । साऽयं कूपे ददौ झम्पां, सुरङ्गापुरुषैस्ततः ॥१५।। पतन्त्येव गृहीता सा, नीता कुमारवेश्मनि । कथितं तैः कुमारस्य, पुरो राज्ञो निषेदुषः ॥१६।। इतश्च पतितां कूपे, तां ज्ञात्वा मन्त्रिराडथ । पुरुषैः शोधयामास, नाऽदृश्यतावटे परम् ॥१७॥ परे वार्ता बभूवैषा, ज्ञातं राज्ञा च तत्तथा । स्त्रीहत्यापातकीत्येवं, राज्ञा मन्त्री न्यगृह्यत ।।१८।। अलुण्ट्यत च सर्वस्वं, व्यडम्ब्यत कुटुम्बकम् । विलोक्यैवं कुमारोऽथ, चिन्तयामास चेतसि ॥१९॥ धिग् धिग् निरपराधोऽयं, नृपेणाऽजानता स्फुटम् । व्यापादितो हहा !! मन्त्री, स्त्रीनिमित्ते मदागसि ॥२०॥
भावनायां असम्मतकथा ।
४०१