________________
धिग्मां येन रता यैषा, स्त्री स्त्रीव्यसनिनाऽर्थिना । धिगेनां च यया चक्रे, कूपपातादुपायता ॥२१॥ नाऽतः परं मया स्थेयं, गृहवासेऽत्र दुस्तरे । स्त्रीजाले पतितो मर्त्यो, मत्स्यवत् को न बध्यते ? ||२२||
विचिन्त्येति कुमारोऽथ, तामनुक्त्वैव सन्त्यजन् । यौवराज्यं परित्यज्य, विरागान्निर्ययौ पुरात् ||२३|| एकाकी स व्रजन् क्वाऽपि, वने साधुं ददर्श च । तं नत्वाऽऽह कुमारोऽथ, वैराग्याऽऽर्द्रमना मृदु ||२४|| व्यसनाऽतिभराऽऽक्रान्तं, मज्जन्तं मां भवाऽम्बुधौ । परमार्थोपदेशेन, साधो ! निस्तारयाऽधुना ॥ २५॥ इति तेनाऽर्थितः साधुर्यतिधर्मं दिदेश सः । अगृह्णाच्च कुमारोऽथ, प्रव्रज्यां मुक्तिदूतिकाम् ॥२६॥ ओजायितमनाः सम्यग्, पश्यन् शुद्धिभाक् त्रिधा । ययौ क्षेमपुरे तत्रोद्यानेऽस्थात् प्रतिमाधरः ||२७|| पुरे तस्मिन्नथैकोऽस्ति, धनदुर्ललितः पुमान् । असम्मताऽऽख्यो यस्याऽभूत् किञ्चनाऽपि न सम्मतम् ॥२८॥
मनुते पितरं नैव, मातरं भ्रातरं न च । न गुरून् देवतां नैव, महानास्तिकवादभृत् ॥२९॥
न जीवो न च पुण्यं च, न स्वर्गा नरकाश्च न । किन्तु भूतयोगाऽयोगाद्वस्त्वस्ति नाऽस्ति च स्थिते: ||३०|| वाग्मित्वेन धनित्वेन, निराकुर्वन्नसौ जगत् । देवानुत्थापयन् साधूनवजानन्नगान्मदम् ॥३१॥ इतश्च बहिरुद्याने, मुनौ तस्मिन्नवस्थिते । अकस्मादेव स महान्नद्यां पूरः समाययौ ॥३२॥
४०२
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।