________________
अगाधे पूरपयसि, तस्मिन् ममज्जुरङ्घिपाः । क्रीडाशिखरिणश्चाऽन्ये, न ममज्ज मुनिः पुनः ॥३३॥ लोको विसिष्मिये दृष्ट्वा, साधु जलोपरि स्थितम् । अहो ! तपःप्रभावोऽयं, साधुरुर्बो जलेऽस्ति यत् ॥३४।। पूरे कालान्निवृत्ते च, तथैवाऽऽस्ते मुनिर्भुवि । तपःप्रभावादासन्नाः, सान्निध्यं व्यन्तरा व्यधुः ॥३५॥ स दृष्टप्रत्ययो लोकस्तं साधुं द्राग् नमस्यति । जाते रोगे च तत्पादरजसा पटुता भवेत् ॥३६।। असम्मतो नास्तिकत्वान्मुनावनुशयं दधन् । तपःप्रभावोऽप्यत्राऽस्तीत्यालोकनमतिं दधौ ॥३७।। शृङ्खलाभिर्मुनेः पादौ, बद्ध्वा काष्ठतृणेषु सः । रात्रावसम्मतस्तत्र, वह्निमुज्ज्वालयत् क्षणात् ॥३८।। उज्ज्वालः सोऽज्वलद्वह्निरार्द्रानपि तरून् दहन् । साधुं प्रदक्षिणीचक्रे, भक्त्यैव परितः स्फुरन् ॥३९।। अन्यदामनार्दै वा, ददाह दहनः क्षणात् । तपःप्रभावान्नाऽधाक्षीन्मुने रोमाऽपि सोऽनलः ॥४०॥ दवीयसि स्थितो देशेऽसम्मतो मुनिमैक्षत । वह्नः परिवेषाऽन्तःस्थं, ध्याने लीनं तथैव हि ॥४१॥ तपःप्रभावं वीक्ष्याऽसौ, नास्तिकोऽपि चमत्कृतः । तस्मिन् साधौ दधौ श्रद्धां, तपसा को न रज्यते ? ॥४२॥ निर्वाणेऽग्नौ ततः शीघ्रमागत्याऽसम्मतः पुमान् । पपात पादयोः साधोभूतलन्यस्तमस्तकः ॥४३॥ मुनेश्च पादयोर्बद्धां, सुदृढां लोहशृङ्खलाम् । स्वेनैवच्छोटयन् प्राप, चिन्तामेतादृशीं हृदि ॥४४॥
भावनायां असम्मतकथा ।
४०३