________________
यथा ह्यस्य मुने: कायो, नदीपूरे ममज्ज न । न चाऽनेनाऽग्निना दग्धो, मनागपि तथा खलु ॥४५॥ मन्येऽन्यस्याऽपि विघ्नास्तु, दूरे स्युस्तपसैव हि । लोके यान्यत्र सौख्यानि, तपसा तान्यपि ध्रुवम् ॥४६॥ ईदृशं न तपश्चक्रे, यैर्मन्ये तेऽत्र दुःखिनः । यैस्तु चक्रे तपस्तांस्तु, पश्यन्नस्मि सुतेजसः ॥४७॥। भवेऽस्मिन्न तपश्चक्रे, परमास्ते प्रतापवान् । पूर्वचीर्णस्य तन्मन्ये, प्रभावं तपसो ह्यदः ।।४८।।
ततश्चाऽऽत्माऽस्ति यस्य स्यात्, स्वकृततपसः फलम् । भुङ्क्ते भवान्तरेष्वेत्य, ततः पुण्यं च मन्यते ॥४९॥
पुण्यात् सम्भाव्यते स्वर्गो, यथा स्वर्गस्तथाऽऽत्मनः । शाश्वतं स्थानमाख्यायि, योऽसौ मोक्षोऽस्ति सोऽपि हि ॥५०॥
इति तत्त्वे मनो लीनं, तथा तस्य महात्मनः । यथा मोक्षाऽर्गलाघातिकर्मातो भज्यत ॥५१॥
ततो मोक्षप्रतीहारकेवलज्ञानमुज्ज्वलम् । प्रादुरासीत् क्षणादेवाऽसम्मतस्याऽपि सम्मतम् ॥५२॥ चराचरं जगत्तस्य, पश्यतः केवलात्स्फुटम् । शासनदेवताऽथैत्य, चारित्रलिङ्गमार्पयत् ॥५३॥ स तेन साधुना देवैरसुरैर्व्यन्तरैर्नरैः । भावेन प्रणतश्चक्रे, तत्त्वार्थधर्मदेशनाम् ॥५४॥ इति स सर्वतः कुर्वन्, प्रतिबोधं शरीरिणाम् । विजहार भुवं भव्यपद्माकरदिवाकरः ॥५५॥
४०४
इति भावनायां असम्मतकथा ॥
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।