________________
अभावनायां वरुणकथा।
विना तु भावनां जन्तोर्ददतोऽथ तपस्यतः । देवं पूजयतः साधून्, नमतोऽपि फलं नहि ॥१॥ निर्लावण्या यथा नारी, निस्तेजाश्च मणिः पुनः । निर्भावश्चित्रवद्धर्मो, वरुणस्येव निष्फलः ॥२॥ गन्धर्वपुरमस्तीह, तत्राऽस्ति विजयो नृपः । यद्बाहुदण्डे चण्डेऽपि, सुखेन श्रीर्वसत्यहो ! ॥३॥ तस्य राज्ये क्रमस्त्वेष, राजा दीपोत्सवे निशि । उपोषितो गोत्रदेवीमूर्तेरग्रे स्वपित्यथ ॥४॥ स्वप्ने सा कुलदेवी तु, ब्रूते वर्षगताऽऽयतिम् । शुभां वाऽप्यशुभां वाऽपि, तथा राजा प्रवर्तते ।।५।। एवं विजयराजोऽपि, प्रतिदीपोत्सवं निशि । शेते पश्यति च स्वप्ने, वत्सराऽवधिमायतिम् ।।६।। अन्यदा स नृपः सुप्तो, गोत्रदेवी त्वचीकथत् । स्वप्ने शुभाऽशुभं भावि, जजागार नृपस्ततः ।।७।। प्रातःकृत्यं नृपः कृत्वा, यावत् संसदमासदत् । विसस्मार नृपस्याऽथ, स स्वप्नस्तत्क्षणादपि ॥८॥
अभावनायां वरुणकथा ।
४०५