________________
निमील्य चक्षुषी चित्तैकाग्य्रादपि नृपः स्मरन् । न सस्मार तं स्वप्नं, निदध्यावाकुलस्ततः ॥९॥ संवत्सरेऽत्र यद्भावि, तद्देव्याऽऽख्यायि मेऽग्रतः । अधन्यस्य ममेदानीं, विस्मृतं हाऽत्र का गतिः ? ॥१०॥ ततोऽमात्यान्नृपः स्वप्नं, पप्रच्छ ब्रूत को मम ।
गोत्रदेव्या किलाऽऽख्यायि, स्वप्नः कीदृक्फलश्च सः ? ॥११॥ विज्ञायते कथं स्वामिन् !, स्वप्नोऽस्माभिस्त्वयेक्षितः । ज्ञानवेद्यो ह्यसौ बुद्ध्या, ज्ञायते नैव भूपते ! ॥१२॥ ततश्च डिण्डिमं राजाऽवादयच्चेति सर्वतः । यः स्वप्नं कथयत्येनं, स्वर्णलक्षाऽस्य दीयते ॥१३॥ ततश्च मन्त्रिणोऽन्येऽपि, चूडामण्यादिवेदिनः । शकुनप्रश्नहोराभिर्निरीक्षन्ते दिवानिशम् ||१४|| न कोऽपि लभते स्वप्नं, ततश्च कोऽपि मन्त्र्यथ । भक्ति नगरदेवानां, ज्ञातुं स्वप्नं चकार स: ॥१५।। देवो न कोऽपि चाऽऽचख्यौ, स्वप्नवार्तामपि स्फुटम् I ततः स मन्त्री बाह्यस्थं, यक्षमेकं विलोक्य तु ॥ १६ ॥ दध्यौ यदस्य यक्षस्य, भग्नं वेश्माऽपि सर्वतः । मूर्त्तिश्च काकविष्ठाभिर्लिप्ता ह्यापादमस्तकम् ||१७|| सश्रीकं तु परं स्थानं, भाव्यत्र व्यन्तरस्ततः । स्वार्थायाऽऽराधयाम्येनं, चेत्पुनः कथयेन्मन ॥१८॥ इत्यसौ जलमानीयाऽपनीय च मलाऽऽदिकम् । स्नपयित्वा च कह्लारपत्रिकाभिरपूजयत् ॥१९॥ विनीतश्चाऽग्रतो भूत्वा, यक्षं प्रत्याह कोमलम् । मया नाथ ! पुराऽन्तःस्थाः सर्वे देवा विलोकिताः ॥२०॥
४०६
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।