SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ परं केनाऽपि किमपि, न स्यादिति मतिर्मम । एवमेव जगत्तैस्तु, भक्ष्यते पश्यतोहरैः ॥२१।। ततश्च त्वं मया ज्ञातः, शिष्टत्वादविकत्थनः । सप्रभावस्ततोऽहं त्वां, प्रपन्नोऽस्मि प्रभुं खलु ।।२२।। तत्स्वामिन् ! साधयाऽर्थं मे, राजस्वप्नं समादिश । यद्राजा दास्यते दास्याम्यर्द्धं तस्य तवाऽपि हि ॥२३॥ यक्षो दध्यौ ममैतानि, दिनान्यासन् परं न हि । चक्रे केनाऽपि भक्तिर्मे, मां वेत्त्यपि न कोऽपि हि ॥२४॥ न भवत्यमुना किञ्चिदिति यक्षैः परैरहम् । उपहस्ये सदाऽप्येवं, ततोऽभूवं सुदुःखितः ॥२५।। अनेन मन्त्रिणा चाऽद्य, पृष्टा देवाः परे न यत् । आख्यंस्तन्मम दैवेन, हुं पुण्याऽवसरो ददे ॥२६।। पयश्छटाऽपि मेऽङ्गेषु, नाऽलगत् प्राक्कदाऽपि हि । केवलं धूलिविष्टाभिलिप्तत्वात्ताड्यते वपुः ॥२७।। अधुना त्वेष मन्त्री मे, स्नपकः पूजकोऽभवत् । तदस्मै कथयाम्येनं, राजस्वप्नं यथास्थितम् ।।२८।। इति सोऽवधिना ज्ञात्वाऽऽचख्यौ स्वप्नं तु मन्त्रिणे । मन्त्र्याख्यद्भूभुजे गत्वा, हर्षाद्राजाऽप्यमन्यत ।।२९।। स्वर्णलक्षां ददौ तोषाद्राजा तस्मै सुमन्त्रिणे । सोऽप्यादाय वैवधिकैरागच्छन्नित्यचिन्तयत् ॥३०॥ मयाऽस्त्यर्द्धं हि यक्षस्य, मानितं तद्ददे यदि । तत्कुटुम्बव्ययानन्तमृणं कस्माद्ददाम्यहम् ? ॥३१॥ किं करिष्यति यक्षश्च ?, स्वर्णेनाऽद्य फलं तु मे । यक्षः क्रोत्स्यति चेत्तत्कि, कर्त्ता कार्यं न यत्पुनः ॥३२॥ अभावनायां वरुणकथा । ४०७
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy