________________
इति ध्यात्वा ततो मन्त्री, ययौ वेश्म निजं मुदा । स्वेच्छया स व्ययत्यर्थं, सांसारिकसुखेच्छया ॥३३॥ आगाद्दीपोत्सवो भूयो, नृपोऽशेत तथैव सः । स्वप्नं ददर्श तत्रैष, विसस्मार तथैव च ॥३४॥ भूयः पप्रच्छ राजा तं, मन्त्रिणं प्रत्ययात्ततः । मन्त्र्याह कथयिष्यामि, सम्यग् ज्ञात्वा यथातथम् ॥३५।। प्रतिज्ञायेति मन्त्र्येष, गेहं गत्वा व्यचिन्तयत् । प्रष्टव्यः स कथं यक्षो ?, दत्तमड़ पुरा न यत् ॥३६।। ततोऽन्तः किमपि ध्यात्वा, स दुग्धेक्षुरसाऽऽदिकम् । पुष्पाऽऽदिपूजाप्रकरं, लात्वा यक्षगृहं ययौ ॥३७।। जलैः प्रक्षाल्य तन्मूर्ति, दुग्धेनाऽस्नपयत्ततः । विलिप्य घुसृणेनाऽथाऽर्चयित्वा कुसुमैर्वरैः ॥३८॥ अगरुधूपमुद्ग्राह्य, प्राहेति कोमलं वचः । स्वामिन् ! यक्षेश ! सोढव्योऽपराधो मे सुदुस्सहः ॥३९।। मया ह्यानीय गेहे स्वे, मुक्तं स्वर्णं ततः किल । यावद्दास्यामि ते तावद्विभज्य भक्षितं सुतैः ॥४०॥ अत्राऽर्थे न त्वया कोपः, कार्यः स्वाम्यसि येन मे । अपराधानहं कर्ता, त्वं सहिष्यसि सर्वथा ॥४१॥ नाऽतःपरं च कर्ताऽस्मि, मानितं त्वन्यथा खलु । प्रसीद कथय स्वप्नं, यन्मां पृच्छति भूपतिः ।।४२।। इति मन्त्रिगिरा प्रीतो, यक्षः स्वप्नमचीकथत् । सोऽपि राज्ञे ततो राजा, स्वर्णलक्षद्वयं ददौ ॥४३।। ततोऽमात्यस्तदाऽऽदायाऽऽगत्य चाऽर्द्धपथे स्थितः । यक्षे वाग्डम्बरः कार्यो, ध्यात्वेति गृहमाययौ ॥४४॥
४०८
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।