SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ पुनर्दीपोत्सवे राजा, तं स्वप्नं व्यस्मरत् क्षणात् । तमेव मन्त्रिणं भूयः पप्रच्छ स्वयमादरात् ॥४५॥ ऊरीकृत्य ततः सोऽपि, ययौ स्वगृहमाश्वथ आकार्य सूत्रधारान् द्रागादिदेश ससम्भ्रमः ॥४६॥ बहि:स्थितस्य यक्षस्य, योग्यं देवकुलं क्षणात् । निष्पादयत रम्यं च, परितो वप्रभूषणम् ॥४७॥ आदेशाऽनन्तरमेव, यक्षस्योपरि तक्षभिः । प्रासादो विदधे चित्रः, प्रोच्चैर्मण्डपमण्डितः ॥४८॥ तत: पौरजनान् मन्त्री, समाहूयाऽऽदिशत्त्विदम् । प्रातर्हर्षेण यक्षस्य, कर्त्तव्योद्यानिका ध्रुवम् ॥४९॥ ऋद्धो लोकस्ततस्तत्र, जगामाऽलङ्कृतः श्रिया । भुक्त्वा भोज्यानि चिक्रीड, नानाक्रीडाभिरुन्मदः ||५०|| आगत्य मन्त्री स्वेनैव, दुग्धसर्पिर्घटैरमुम् । स्नपयित्वा तमानर्च, पुष्पैः सौरभमन्दिरैः ॥५१॥ पुरत: कारयामास, सङ्गीतकमथाऽद्भुतम् । अश्रुतादृष्टं तच्छ्रुत्वा, यक्षोऽन्तर्मुमुदेऽधिकम् ॥५२॥ प्रेक्षणे क्रियमाणे च, मन्त्री यक्षाऽग्रमेत्य सः । ऊचे यक्षेश ! नाऽस्त्येव, कृतघ्नो मे समः परः ॥५३॥ त्वादृशस्य प्रभोश्चक्रे, लोभाऽन्धेन मया हहा !! | वञ्चना तत्र किं कुर्वे, कुटुम्बं मे हि खादकम् ? ॥५४॥ अथवा त्वादृशि स्वामिन्यपि न स्यात् कुटुम्बकम् । स्वेच्छोपभोगभाक् तत्क्वाऽन्यत्र तद्भविता सुखी ? ॥ ५५ ॥ किं बहूक्तैर्भवान् स्वामी, दास्यत्यविनया अपि । वयं च भक्षयिष्यामः, पितृपुत्रक्रम सौ ॥५६॥ अभावनायां वरुणकथा । ४०९
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy