________________
इत्थं सुधारसाऽऽस्वादपेशलां मन्त्रिणो गिरम् । निशम्य यक्षः प्रत्यक्षीभूय स्वप्नाऽर्थमादिशत् ॥५७॥ ततो मन्त्री नृपायाऽऽख्यच्चतुर्लक्षीं नृपो ददौ । लोभं त्यक्त्वा ततो मन्त्री, यक्षाऽग्रे तन्त्र्यचिक्षिपत् ॥५८॥ यक्षमूचे च सर्वं हि, गृहाण काञ्चनं प्रभो ! । नातः परं करिष्यामि, भवता सह वञ्चनाम् ॥५९॥
ततो विहस्य यक्षः स, प्राह मन्त्रिन्नतः परम् । सम्भाव्यते शुभः कालश्चेतांस्यार्द्राणि चाऽङ्गिनाम् ||६०|| एतावन्ति दिनान्यासीत्कालो दुष्टस्ततो भुवि । कालाऽनुसारतोऽभूवन् सन्तोऽप्यनृतभाषिणः ॥६१॥ किं मे कार्यं सुवर्णेन ?, गृहाणैतत्त्वमेव हि । इति प्रोक्तः स यक्षेण, तदादाय गृहं ययौ ॥६२॥ ऋद्धस्तेन सुवर्णेन, मत्तो राजप्रसादतः । मोक्षसौख्यपदांस्तीर्थकरानप्यवमन्यते ॥६३॥
विना भावं करोत्येषोऽर्हतां पूजां प्रसिद्धये । ददाति कीर्त्तये दानं, न पुनर्भावतः क्वचित् ॥६४॥ एवं हि कुर्वतस्तस्याऽभूद्द्रव्यव्यय एव हि । नाऽभूत्परभवोन्नत्यै, पुण्यलेशोऽपि सर्वथा ॥ ६५ ॥ इत्यभावनया मन्त्री, वरुणाऽऽख्यः क्रमेण सः । मृत्वा जातो व्यन्तरेष्वल्पर्द्धिषु क्रूरमानसः ||६६||
४१०
इत्यभावनायां वरुणकथा ॥
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।