________________
अभिग्रहे सिद्धकथा
मनो हि दारुवद्वक्रं नानाऽभिग्रहयन्त्रतः । तपस्तापेन शनकैरभङ्गात् समतां नयेत् ॥१॥ सर्वदाऽपि मनो रोध्यं, स्वल्पाऽऽरम्भैर्विवेकिभिः । जीवाऽऽकुलासु वर्षासु विशेषाच्छुभमिच्छुभिः ॥२॥ न्यायाऽर्थोपार्जने मासान्निर्गमय्याऽष्ट धार्मिकैः । सिक्तो वर्षासु धर्मः स्यात्, सिद्धस्येवेष्टपूर्त्तये ॥३॥ वैभारपर्वतेऽस्त्येकः, सिद्धाऽऽख्यस्तस्करेश्वरः । सोऽन्यदाऽगात्तरङ्गिण्यां, पुर्यां चौर्याय निर्भयः ॥४॥ गच्छन्नितस्ततः सोऽगादेकस्य वणिजो गृहम् । शुश्राव च वणिक्पुत्रं, ब्रुवाणं पितरं प्रति ॥५॥ अपुण्यात्तात ! मे सम्पत्, सम्पन्ना नोद्यमादपि । पतितोऽस्मि गृहद्वन्द्वे, मर्त्यजन्मफलं न मे ॥६॥ न चाऽत्र गुरवः सन्ति, धर्मो येभ्यो निशम्यते । तदादिश विधेयं मे, येनाऽऽत्मा निर्मलो भवेत् ॥७॥ इति पृष्टे सुतेनाऽथ, सिद्धचौरे च शृण्वति । पिता प्राह मुदा वत्स !, शृणु त्वं कुलमण्डन ! ॥८॥
अभिग्रहे सिद्धकथा |
,
४११