________________
व्यवसायो गृहस्थानां, भवेज्जीवनहेतवे ।
महारम्भं तथाऽपि त्वं, वर्षासु मा कृथाः सुत ! ॥९॥ किन्तु वत्स ! यथाशक्त्या, कुरुष्वाऽभिग्रहानिह । देवपूजादिसत्कृत्ये, मुच्यसे कल्मषात्ततः ॥१०॥ वणिक्पुत्रः पितुः पार्श्वे, जग्राहाऽभिग्रहान् कति । सिद्धचौरस्ततो दध्यौ, पुत्रस्य विनयः कियान् ? ॥११॥ वात्सल्यं च पितुः पुत्रे, कियद्धिग् मामलक्षणम् । नाऽस्ति यस्य गृहे वृद्धो, माता पिताऽथ शिक्षकः ॥१२॥ एनमेव किलाऽऽदेशं, करिष्येऽहं खलु स्वयम् । अनेनाऽऽप्तेन पुत्रायाऽऽदिष्टं स्यादायतौ हितम् ॥१३॥ इति ध्यात्वा स तं वृद्धमुपेत्य च प्रणम्य च । भक्त्योवाचोपदेशस्ते, प्रतीष्टः शिरसा मया ॥ १४॥ परमाऽऽलम्बनं किञ्चिदादिशाऽस्मन्मनः स्थिरम् । स्यादित्युक्तेऽमुना वृद्ध, आख्यत्पञ्चनमस्कृतिम् ॥१५॥ पत्रे क्वाऽपि लिखित्वा तां, सिद्धचौरो गृहान् [हं] ययौ । स्वमनःश्रद्धया सम्यग् जग्राहाऽभिग्रहानिति ॥१६॥
पापकार्यं मया कार्यं, न वर्षासु स्थिराऽऽत्मना । नित्यमेकाऽऽसनस्थेन, गुण्या पञ्चनमस्क्रिया ॥ १७॥ प्रारेभे च तथैवैष, प्रावृषि त्यक्तचौरिकः । पञ्चनमस्कृतीश्चित्तनिरोधात् परिवर्तयन् ॥१८॥
तस्मै चाऽभिग्रहस्थाय, कुटुम्बं कुध्यति क्षणात् । चौर्यं कुर्वति तस्मिन् हि, पूर्यते तस्य वाञ्छितम् ॥१९॥ खादकत्वाच्च तल्लोकः, प्रत्यहं द्वेष्टि तत्क्रियाम् । अन्यदा सिद्धभार्या तत्पत्रं पञ्चनमस्कृतेः ||२०||
४१२
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।