________________
गृहीत्वाऽचिन्तयत् पत्रेणाऽनेन विप्रतारितः । मत्पतिस्तत्क्षिपाम्येतत्, कूपेऽगाधे क्वचित्ततः ॥२१॥ कार्याऽर्थमन्यतः सिद्धे, गते सा निर्ययौ गृहात् । कूपं प्रति चचालाऽऽशु, श्मशानोपान्तवर्त्मना ॥२२॥ इतश्च कस्यचिद् ग्रामपतेर्दयितयैकया । अन्तर्वत्न्याः सपत्न्या द्रागीर्ष्यया प्रददे विषम् ॥२३॥ विषेण गुर्विणी साऽथ, पपात मूर्च्छयाऽवनौ पितृश्वशुरवर्गश्च ददौ तस्या विषौषधम् ॥२४॥
नाऽभूत्तेन गुणः कोऽपि न चाऽप्यन्येन केनचित् । ववृधे किन्तु मूर्च्छा ऽस्यास्ततोऽभूद्गतचेतना ||२५||
मृति संस्कारं कर्तुं निन्युस्तत्स्वजना बहिः । कूपाऽऽसन्ने श्मशानेऽत्र, काऽप्येका व्यन्तरी ततः ॥२६॥
दृष्ट्वा सिद्धप्रियां पञ्चनमस्कारोज्झनोद्यताम् । व्याषेद्धुं तामुपायेन, व्यन्तरी ौत्सुकायत ||२७|| दृष्ट्वा तां गर्भिणीं जीवदर्भां विषोर्मिमूच्छिताम् । सा जातकृपा स्त्रीरूपमाधायैषां पुरोऽभवत् ॥२८॥
उच्चैराक्रन्दतस्तांश्च, प्रोवाच व्यन्तरी स्वयम् । मा मा रुदित दीनाssस्या, अस्त्यस्या जीवने क्रिया ||२९|| पश्यतां याति या स्त्रीयं, महामन्त्रोऽस्ति तत्करे । तन्मन्त्रपत्रमेतस्या मुच्यतामुदरे क्षणात् ॥३०॥ यथैषा निर्विषोत्थाय, पद्भ्यां याति गृहं निजम् । श्रुत्वेति गर्भिणीलोकोऽधावीत् सिद्धवधूं प्रति ॥३१॥ त्यक्तुकामा पुराऽप्येषा, सदैन्यं प्रार्थिता तु तैः । परमेष्ठिनमस्कारपत्रं तान् प्रत्यथाऽक्षिपत् ॥३२॥
अभिग्रहे सिद्धकथा |
४१३