SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ततस्तैः श्रद्धया पत्रं, न्यस्तं तदुदरे किल । उत्तस्थौ गतमूर्च्छाऽहो !, प्रभावः परमेष्ठिनाम् ? ॥३३॥ सर्वेषां विस्मयो जज्ञे, व्यन्त सा तिरोदधे । सिद्धभार्याऽपि तद्वीक्ष्य, चित्ते सम्भावनां दधौ ॥३४॥ किमयं हि महामन्त्रो यत्प्रभावान्मृताऽ ऽप्यसौ I जीविता तदयं ग्राह्यो न त्याज्य इति तं ललौ ॥३५॥ ततश्च ग्रामपतिना, प्रियाजीवनतुष्टितः । प्रददे सिद्धभार्यायै, पारितोषिककाञ्चनम् ॥३६॥ अन्यैश्च बन्धुभिस्तस्याः, प्रदत्तं काञ्चनं बहु | गृहीत्वा तन्नमस्कारपत्रं स्वर्णं च सा ययौ ||३७|| यथास्थानं तया मुक्तं, तत्पत्रं श्रद्धया गृहे । सिद्धाय कथयित्वा तत्, तं भक्त्याऽऽराधयत्स्वयम् ॥३८॥ यथा गृहीतान् सिद्धोऽपि, नियमान् पालयन् स्फुटम् । आत्मानं निर्मलीचक्रे, पापपङ्कविशोधनात् ॥३९॥ वर्षाकाले निवृत्तेऽथ, तद्ग्रामे समवासरत् । विहरन् केवलज्ञानी, देवाऽसुरपुरस्कृतः ||४०|| ततश्च सिद्धचौरोऽपि, तत्राऽगाद्भावनावृतः I प्रणिपत्योपविष्टश्च बभाषे ज्ञानिना स्वयम् ॥४१॥ महात्मन् ! सिद्ध ! यच्चक्रे, विशुद्धो नियमस्त्वया । लप्स्यसे तेन निर्वाणसम्पदं पदमात्मनः ॥४२॥ इति ज्ञानिगिरा तस्य, कर्णे प्रविष्टमात्रया । निर्वास्य घातिकर्माणि, केवलज्ञानमाहितम् ॥४३॥ एत्य देवतया लिङ्गेऽर्पिते केवलिनस्ततः । उपविष्टः समे स्वर्णसिंहासने स केवली ॥४४॥ ४१४ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy