________________
ततो ज्ञानी स्वयं चख्यौ, प्रतिबोधाय देहिनाम् । सिद्धोऽयं नियमान् सम्यक्, प्रपाल्य निर्मलोऽभवत् ॥४५॥ अस्मद्वाचि श्रुतायां च, भाव्यस्य केवलं ततः । वयमत्राऽऽगताः स्वेन, जातमस्याऽपि केवलम् ॥४६॥ इतीत्थं चित्तपञ्चाऽक्षनिग्रहान्नियमो हृदि । योऽपि सोऽपि ग्रहीतव्यः, पुण्यानुबन्धकृन्नृभिः ॥४७||
इत्यभिग्रहे सिद्धकथा ॥
अभिग्रहे सिद्धकथा ।
४१५