________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
चैतन्यचन्द्रोदयस्य
अपि च। कृष्ण कृष्ण जय कृष्ण कृष्ण हे
कृष्ण कृष्ण जय कृष्ण कृष्ण हे। कृष्ण कृष्ण जय कृष्ण कृष्ण हे कृष्ण कृष्ण जय कृष्ण पाहि नः ।। इत्यमम्बुदविकस्वरस्वरस्निग्धमुग्धवचनामृतद्रवैः।
ह्लादयन् श्रुतिमतां श्रुतिदयं
चित्तमप्यपहरन् स जग्मिवान् ॥ सार्व। सत्यमेवात्य तस्यैवमेव प्रकृतिः । विप्रः । ततो गोदावरीतोरमासाद्य विहितविश्रामे जगज्जनमनाभिरामे निरुपमकृपाभिरामे प्रेमसौभगवति भगवति कनक केतकोपवन इव परिमलाऽऽमोदितदिग्वलये सकलगणनिलये स्वयम्प्रकाशिकया तत्प्रथया कोऽयं कोऽयमिति कृतसमूहः समूहः क्षोणिसुराणां तत्र मिलितवान्। निमन्त्रितश्च केनापि । समनन्तरमनन्तरहस्ये सर्वतः सच्चरति जनचयश्रवणकान्ते तदुदन्ते मन्त्राइष्ट इव ग्रहगृहीत इव विस्मयचमत्कार-विकारविसंठुल इव रामानन्दरायः समुपेयिवान्।
राजा। रामानन्द धन्योऽसि धन्योऽसि । यस्य ते नयनविषयीभूतास्ते श्रीचरणाः।
विप्रः । समनन्तरमागत्यैव चरणकमलपरिसरे सरेरीयमाणाश्रु निपतति स्म स्वयमेव। अये त्वमेव रामानन्दोऽसीति भगवता सानुग्रहमुक्ते अथ किमिति च प्रत्यूचे। तदनु भगव
For Private And Personal Use Only