Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२५४
www. kobatirth.org
चैतन्यचन्द्रोदयस्य
श्चक्रेऽद्वैततनूजमेकमधुरं गोपालदासाभिधम् । नृत्यन्नेव समूर्च्छितः मुखवशाद्देदान्तरं यन्निवा द्वैते खिद्यति पाणिपद्मवलनाद्देवः सतं प्राणयत् ॥ ततो हरिध्वनिरुच्चैरुच्चचार ।
Acharya Shri Kailassagarsuri Gyanmandir
राजा । अहो मे दुरदृष्टं यदेतदपि न दृष्टम् । पुरु। ततो नरसिंहनाथमण्डपञ्च संस्कार्य्य धावयित्वा इन्द्रद्युम्नसरसि कृतजलविहारः सर्व्वेरेव तदभ्यर्णवर्त्तिनि कुसुमाद्याने विशश्राम | तदनु वाणीनाथपट्टनायकेनोपनीतानि भगवत्प्रसादादीनि सर्व्वेरेव सेवितानि । नेपथ्ये ।
नेत्रोत्सवः सर्व्वजनस्य भावी
श्वः श्रीपतेः श्रीमुखदर्शनेन ।
इतीव चित्तोत्सव एष जातो
महोत्सवस्यापि महोत्सवो यः ॥
राजा । महापात्र काशीमिश्रोऽयं यथाऽऽलपति तथा मन्ये भवन्तमेव श्रावयति तदधुना नेत्रोत्सवस्य कृताकृतावेक्षणमा
चरतु भवान् ।
तुलसी । यथाऽऽज्ञापयसि । इति निष्कान्तः ।
ततः प्रविशति काशीमिश्रः ।
काशीमिश्रः । अहो अतिमधुरं भावी । काशीश्वरक्षपितलेोकचयः पुरस्ताद् गोविन्दपालितविलासगतिः परस्तात् । पार्श्वदये च सपुरीश्वरसस्वरूपो
For Private And Personal Use Only

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294