Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
चैतन्यचन्द्रादयस्य काशी। महाराज कच्चुकिद्वारा महिषीभिरभ्यर्थितमस्ति भगवतो गौरचन्द्रस्य नृत्यदर्शनार्थमिहावस्थानम् । राजा। सुखेन पश्यन्तु कृतार्थयन्तु लोचने जनुश्च । काशी। तत्त्वरख भगवता रथारोहणकालः सन्निकृष्ट एव। राजा। एवमेव । काशी। अहमपिभगवन्निकट एव गच्छामि। इत्युभौ निष्कान्तो। ततः प्रविशन्ति कञ्चुकिनोपगम्यमानास्तामेव वडभीमारूला महिष्यः । कञ्चु। देव्यः पश्यन्तु।
सम्प्राप्तो रथकन्धरं तनुभृतां नेत्रैर्मनोभिः समं श्रीनीलाचलचन्द्रमा रथपथं सम्पाप गौरो हरिः । भावाक्रान्ततयैव नेत्रमनसी तेषां वरं मुच्चतः
पूर्व नैव परन्तु पूर्वपरयोः सत्यं बलीयान् परः॥ अपि च। मण्डलैस्त्रिभिरसौ स्वजनाना
मावृतो जयति काञ्चनगौरः। वीजकोष इव वारिरहस्य
प्रोल्लसत्तरसहस्रदलस्य ॥ देव्यः सोत्कण्ठं निरीक्ष्य प्रणमन्ति । कच्चु । देव्यः पश्यन्तु पश्यन्तु।
काशीश्वरोऽजनि वहिर्बलयस्य मुख्या गोविन्द उत्तमतमोऽजनि मध्यमस्य । अभ्यन्तरस्य मणिवज्जयति स्वरूपः सामाजिकः किल पुरीश्वर ईश्वराग्रे॥
For Private And Personal Use Only

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294