Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press

View full book text
Previous | Next

Page 287
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ चैतन्य चन्द्रोदयस्य पुनर्नेपथ्ये जयजय ध्वनिः । खरूपः । बालोक्य । भगवन् मानस्य क्रम एष नैव यदियं स्वैश्वर्यविख्यापकेनानादिव्यपरिच्छदैः स्वयमहो देवं प्रतिक्रामति। व्यक्तं रौद्ररमोऽयमम्बुधिभवः क्रोधस्य यत् स्थायिनो भूयानेव विकार एष विदितं वैदग्ध्यमस्याः परम् ॥ पुरोश्वरः । स्वरूप सत्यमेव । किन्तु पश्यतां पुनरद्भुत एव रमः। तथा हि। पताकाभिर्देवी कलहमनुभोगीन्द्ररसना सहस्रस्य दाभ्यां यगपदिव लोढा दशदिशः । नभो वापीहंसैरिव स्मृदुचलैश्चामरचयः सितछत्रैः फन्नदवलकमलोपैरिव वृता॥ अपि च। सुधूपानां धूमैः प्रतिदिशमुदीर्णरुपचिने घनौघे गम्भोरं ध्वनति मुरजादिव्यतिकरे। बलाकानां श्रेण्यामिव धवलसत्तोरणततो चलन्त्यामुन्मत्ता इव दधति लास्यानि शिखिनः॥ अद्वैतः। पुरो वारस्लोभिर्गुणविजितरम्भाप्रमृतिभि लसल्लीलालास्यं मुहुरभिनयन्तीभिरभितः । समन्ताहासीभिर्व्यजनचयताम्बूलपुटिका मणीभृङ्गारादिग्रहणचटुलाभिः परिवृता ।। अपि च। विमानस्य म्लानोमिव विदधती मुग्धमहसा चतुर्दोली चामोकरमणिमयोमुत्थितक्ती। अतिक्रोधान्धाऽपि स्मरभरसमाभुनहृदया For Private And Personal Use Only

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294