Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'दशमाङ्के श्रीचैतन्यखरूपाद्यभिनयः ।
For Private And Personal Use Only
२६३
पुत्रीयं पितृजनितदर्पेव बलते ॥
स्वरू | सेोपहासम् । अहो मानवैदग्ध्यमस्याः । श्रोचैतन्यः। स्वरूप कीदृशं प्रणयकोपवैदग्ध्यम् । स्वरू। या यादृशी तस्याः खलु तथाविधं वैदग्ध्यम् । श्रीचै । तथाऽपि श्टणुमः ।
स्वरू । कदाचित् कृतापराधे प्रणयिनि श्रीब्रजराजकिशोरे सविधमागत्य समुचितं व्याचरति सति ।
किं पादान्तमुपैषि नास्मि कुपिता नैवापराद्वेो भवानिर्हेतुर्न च जायते कृतधियां कोपोऽपराधेोऽथवा । योग्य एव हि भोग्यतां दधति ते तत्किं मयाऽयोग्यया तेनाद्यावधि गोकुलेन्द्रतनयस्वाच्छन्द्यमेवास्तु ते ॥ इदं कोपवैदग्ध्यम् । प्रकारान्तरच्च । दूरादुत्थितमन्तिकं मयि गते पीठं करेणार्पितं स्मित्वा भाषिणि भाषितं मृदु सुधानिःस्पन्दि मन्दं वचः । आरूढेऽर्द्धमथासनं प्रकटितो हर्षस्तयाऽऽश्लिष्यति प्रत्याश्लिष्टमवामयैव मनसो वाम्यं तयाऽऽविष्कृतम्॥ इति । श्री । पूर्व्वतोऽपि सुरसमिदम् ।
श्रीवासः । सपरिहासम् । गोपालललनानां चैतादृशमैश्वर्य्यम् । ऐश्वर्यं हि मदहेतुः ।
अस्याः पश्यत भो मदस्य महिमा दासीकुलेनेश्वरीगव्वात्सेकमदोड्डुरेण यदमी बड्डा कटी रोधसि । मुख्या एव जगत्पतेः परिजनाः प्रत्येक माकर्षता

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294