Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press

View full book text
Previous | Next

Page 289
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६४ चैतन्यचन्द्रोदयस्य पात्यन्ते स्म निजेश्वरीपदपुरः प्रापय्य चौरा इव ।। मृत्यापराधे स्वामिनो दण्ड इत्येव श्रुतम। इदन्तु तदिपरीतमेवेत्यहो अत्यङ्गतम्। स्वरू। श्रीवासं प्रति। भाः पण्डित पश्य पश्य तव देव्या वैदग्ध्य म् । अचेतनस्यास्य रथस्य को वा मन्तुः कथं तायत एष मृत्यैः । यास्याम्यदूरेऽहमितीश्वरेण प्रोक्त कथं वाऽशमि दीर्घकोपः॥ श्रीवा । स्वामिन् ईश्वर्या हि इयमेव रीतिः । श्रीचै। श्रीवास नारदत्वेन भवान् द्वारकाविलासप्रिय एव तेन तुभ्यमैश्वर्यांश एव रोचते। स्वरूपस्य वृन्दावनप्रियत्वात् तथाविधानन्दवैदग्ध्यांश एव प्रेयान्। अहतः। भगवन् भवत्पदाम्भोरुहयोरनुग्रहादस्मादृशामोदृशमीदृशं महत्। बभूव सौभाग्यमहो महोत्सवा मूर्ती इवामो विविशुद्देशोः पथि ॥ श्रीचै। किन्ते भूयः प्रियमुपकरोमि । अद्वै। किं भूयः प्रियमपकरिष्यसि । हेलाखेलायितेनातनि कलिमथनं ख्यापितो भक्तियोगो .. व्यक्तं तत्रापि नीतः परमसुनिभृतः प्रेमनामा पदार्थः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294