Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press

View full book text
Previous | Next

Page 280
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५५ दशमात्रै राजकाशीमियोरभिनयः । नेत्रोत्सवाय स भविष्यति गौरचन्द्रः॥ राजा। अहो मनसा सह सङ्कथयन्मामपि नावलोकते मिश्रः। मिश्रः। दक्षिणेऽक्षि निक्षिप्य। अहो निष्यन्नमण्डनैव रथत्रयी विशेषताऽयं श्रीजगन्नाथस्य रथः। उत्सर्पिदर्पणसहस्र विभावितश्रीः सच्चारुचामरसुचीनचयैः परीतः । तेजोमयः समयमेत्य विराजमान आनन्दयन्नयनमेव रथो विभाति ॥ सम्मुखमवलोक्य। अये कथमिहैव राजा। उपसृत्य । जयति जयति महाराजः । महाराज इह स्थितेनैव त्वया रथारोहणं भगवतोऽवलोकनीयं पश्चात् स्नानोत्तरं स्वसेवा विधेया। राजा। रथविजयसेवा मे नियताऽपि तथा मां नोत्कण्ठयति यथा महाप्रभात्यदर्शनस्पृहा । काशी। रथारोहणे जाते सति यामाान्तरित एव महाप्रभात्यारम्भो भावी। राजा। सवितर्कम्। इतश्चेत् पश्येयं भवति परितोषो न मनसस्ततो वा पश्येयं तदपि सुलभं नैव भवति । प्रवेशस्तगोण्या मम न घटते तद्वततया तदन्तर्वत्तित्वात् कथम् कलये तस्य नटनम् ॥ तथाऽपि यावन्नटनं तावदेव तत्रैव स्थेयं तत्कृपादेव्येव शरणम्। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294