SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २५४ www. kobatirth.org चैतन्यचन्द्रोदयस्य श्चक्रेऽद्वैततनूजमेकमधुरं गोपालदासाभिधम् । नृत्यन्नेव समूर्च्छितः मुखवशाद्देदान्तरं यन्निवा द्वैते खिद्यति पाणिपद्मवलनाद्देवः सतं प्राणयत् ॥ ततो हरिध्वनिरुच्चैरुच्चचार । Acharya Shri Kailassagarsuri Gyanmandir राजा । अहो मे दुरदृष्टं यदेतदपि न दृष्टम् । पुरु। ततो नरसिंहनाथमण्डपञ्च संस्कार्य्य धावयित्वा इन्द्रद्युम्नसरसि कृतजलविहारः सर्व्वेरेव तदभ्यर्णवर्त्तिनि कुसुमाद्याने विशश्राम | तदनु वाणीनाथपट्टनायकेनोपनीतानि भगवत्प्रसादादीनि सर्व्वेरेव सेवितानि । नेपथ्ये । नेत्रोत्सवः सर्व्वजनस्य भावी श्वः श्रीपतेः श्रीमुखदर्शनेन । इतीव चित्तोत्सव एष जातो महोत्सवस्यापि महोत्सवो यः ॥ राजा । महापात्र काशीमिश्रोऽयं यथाऽऽलपति तथा मन्ये भवन्तमेव श्रावयति तदधुना नेत्रोत्सवस्य कृताकृतावेक्षणमा चरतु भवान् । तुलसी । यथाऽऽज्ञापयसि । इति निष्कान्तः । ततः प्रविशति काशीमिश्रः । काशीमिश्रः । अहो अतिमधुरं भावी । काशीश्वरक्षपितलेोकचयः पुरस्ताद् गोविन्दपालितविलासगतिः परस्तात् । पार्श्वदये च सपुरीश्वरसस्वरूपो For Private And Personal Use Only
SR No.020136
Book TitleChaitanya Chandrodaya
Original Sutra AuthorN/A
AuthorKavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
PublisherBapist Mission Press
Publication Year1854
Total Pages294
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy