Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
चैतन्यचन्द्रोदयस्य दृश्यन्ते तदमी तैर्थिका एव। पुनर्निभाल्य । अये सर्व एव गौडीयाः। पुनर्निरूप्य । अयमयमद्वैताचार्यः । अयमयं नित्यानन्दावधूतः। अयमयं श्रीवासः। अयमयं हरिदासः । अयं गदाधरदासः। इमे गोविन्दघोषादयः । एष मकरध्वजः । एष काशीनाथः। एते नरहरिप्रमखाः । एते कुलीनग्रामीण रामानन्दादयः। एते नित्यानन्दपार्षदा गौरीदासादयः । किं बहुना सर्व्व चैतन्यपार्षदा एव समागच्छन्ति। तद्रमेव जातमद्यात्रैव स्थित्वा प्रत्येकमेते सम्भाषणीयाः। इत्युपसर्पति । ततः प्रविशन्ति भगवद्दर्शनार्थं प्रस्थिता व्यदैतादयः । अद्वै। अये पुरतः सार्वभौम इव दृश्यते कोऽर्थः ।
साव। उपस्त्यावेतं प्रणमति एवमन्यानमि। दूरे चरिदासं विलोक्य । कुलजात्यनपेक्षाय हरिदासाय ते नमः ।
हरिदासः। दूरेऽपसर्पन ससाध्वसं प्रणमति ।
अहै। सार्वभौम भवद्भिः कथं श्रीकृष्णचैतन्यपदारविन्दस्य विच्छेद उरीकृतः। . सार्व। एवमेव। इति सर्व कथयति ।
अहै। हहो अद्यात्रैव सर्वे विश्रामन्तु भट्टाचार्येण सह गोष्ठी कर्त्तव्या। सर्वे । यथारूचितं भवाः। इति यथायथं वासं कुर्वन्ति । श्रीकान्तः। शिवानन्दं प्रति । भो मातुलमहाशय अहं अये यामि यदि वोऽनुमतिर्भवति।
For Private And Personal Use Only

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294