Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशमा राजकाशीमिश्रयोरभिनयः । राजा। अहो प्रमादो यावदनवसरं तावदेव चेदेवं स्यातदा किं भवति । पुनस्तत्रैव।
नान्योऽप्युपायः प्रियकीर्तनस्य सशीर्तनानन्दथुमन्तरेण । रसान्तरायेति तदेव कत
खरूप रवोद्यममातनोति ॥ राजा। भद्रं भो भद्रम। देवी प्रति। प्रिये त्वमितोऽपसर । आकारयामि तावदेनं काशीमिश्रमिति ।
देवी। जह आणवेदि (१)। रति निष्कान्ता । মন: মনিমুনি জামুীমিঃ ।। काशीमिश्रः । जयति जयति देवः। . राजा। मिश्र कथय किमुक्तं भवता । काशी। यदुक्तं तथैव तत्। राजा। कथय स्वरूपगोस्वामिना कि मन्त्रितमस्ति । काशी। भगवता स्वीकृते तथाविधविरहवैकल्यानुभवे तदपनोदार्थं सकलैरेव सुहद्भिः सह मन्त्रितम्। अद्य सायं यदि गोपीनाथविजयदर्शनानन्तरं भगवता मधुरतर-भगवत्कोतनं श्रूयते तदा रसान्तरं भवति तस्मिंश्च सति विरहावेशः श्लथत इति सम्मन्व्य रोहिणीकुण्डसविधे परमाप्तैस्तदीयहृदयज्ञैरेव कतिपयैर्मधुरमधुरं कीर्तनमारधितमस्ति । .
१ यथा आज्ञापयति ।
For Private And Personal Use Only

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294