Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press

View full book text
Previous | Next

Page 276
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दशमाङ्के राजतुलस्याद्यभिनयः । २५१ तुलसी । देव जगन्नाथस्य रथयात्रा नेदीयसीति गुण्डि - चामन्दिरमार्ज्जनक्षालनार्थं स्वयमेव महाप्रभुस्तत्रोद्यतः । राजा । प्रियं मे प्रियं किञ्चिदाज्ञप्तमस्ति । तुलसी। यदाज्ञाप्तं तत् काशीमिश्रेणैव सम्पादितम् । राजा । किं तत् । तुलसी । यावन्तस्तल्लोकास्तावत्य एव सम्मार्ज्जन्यो घटास्तु ततोऽधिकाः । राजा । एतावन्मात्रम् । तुल । किमन्येन तत्प्रयोजनम् । नेपथ्ये कलकलः । तुलसी । देव पश्य पश्य । श्रीहस्तेन विलिप्य चन्दनरसैः प्रत्येकमेषां वपुनिक्षिप्याप्यधिकन्धरं भगवतो निर्माल्यमाल्यानि च। उल्लासद्रुममञ्जरीरिव करे सङ्गादयञ् शोधनीमीद्यत्तुङ्गमतङ्गजालसगतिगैौरो विनिष्क्रामति ॥ अपि च । निर्गच्छन्ति मुदा मनोरथरथैः सन्तोषदन्तावलैरत्युज्ञासतुरङ्गमैर्भवजये जैत्रा इवामी भटाः । रोमाञ्च्चावलिकञ्चुकाव्यवपुषोऽश्रान्तस्रवैर्विश्वतो वास्पैर्वारुणमस्त्रमेव समदं डङ्कारद्मकारिणः ।। राजा । धिग्भूपत्वं कदाऽहमेषा मध्ये यः कश्चिदेव भवन् भगवन्तमनुव्रजामि। तुलसी मिश्र कथमिदं कौतुकमामूलमाकर्ण्यते । 212 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294