Book Title: Chaitanya Chandrodaya
Author(s): Kavi Karnpur, Vishvanath Shastri, Rajendralal Mittra
Publisher: Bapist Mission Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१.
चैतन्यचन्द्रोदयस्य वधिर्भूय निमीलितचक्षुरान्तरेण चक्षुषा पश्यति त्रीनेव भोगानेक एव भगवान् भुते। अनन्तरं सञ्जातमहानन्दो गलदश्रुधारः सारवमुच्चैः प्रणयामर्षकृताक्षेपमिव भद्रं भो भद्रं जगनाथेन सह तवैक्यमतो जगन्नाथस्य भागो भुज्यतां नाम मम नृसिंहस्य भोगः कथं भुज्यते नृसिंहोऽद्य मयाऽयमुपोषित इत्युच्चैराक्रन्दञ् शिवानन्देनोक्तं स्वामिन् कथमाक्रुश्यते इति।
स्त्री। तदो तदो (१)। पुरु। ततस्तेनोक्तम्। तव गोखामिना चैतन्येन भोगत्रयमेव भुक्तं नृसिंहस्योपवास जात इति । स्त्री। तदो तदो (२)।
पुरु। ततः शिवानन्देनोक्तम्। स्वामिन् नृसिंहार्थमन्या भोगसामग्री कर्त्तव्येति । तथाकृते स्वस्थो बभूवेति स्थिते शिवानन्दस्य संशयो जातः । किमनेनावेशवशादेवोक्तमथवा सत्यमेवेति मनसि कृत्वा पुनरन्यस्मिन् संवत्मरे पुरुषोत्तममासाद्य भगवच्चैन्यसविधे गतः। प्रसङ्गतो नृसिंहानन्दस्य तन्महिमकथने वान्तरभूता पाकक्रिया तस्यातिसमोचीनेत्यपि वदति भगवति सर्वेषु सन्दिहानेषु मया गते सम्बत्मरे पोषे मासि तस्य भिक्षा कृता । तत्र तस्य पाककौशलं ज्ञातमित्युक्ते पुनः सर्वे सन्दिग्धा एव स्थिताः। शिवानन्दस्तु निःसन्देहो बभूवेति व्याख्यातस्ते त्रिविधेोऽनुग्रहप्रकारः।
१ ततस्ततः। २ ततस्ततः ।
For Private And Personal Use Only

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294