Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 236
________________ १४४ चकितबालकुरङ्गविलोचना जनमनांसि हरन्तितरां नराः ॥ ७ ॥ करसरोरुहखेलनचञ्चला तव विभाति वरा जपमालिका । श्रुतपयोनिधिमध्यविकस्वरो ज्जवलतरङ्गकलाग्रहसाग्रहा ॥ ८ ॥ द्विरदकेसरिमारिभुजङ्गमासहनतस्करराजरुजां भयम् । तव गुणावलिगानतरङ्गिणां न भविनां भवति श्रुतदेव ॥ ९ ॥ (स्रग्धरावृत्तम्) ॐ ह्रीं क्लीं ब्लीं ततः श्रीं तदनु हसकलीमथो ऐं नमोऽन्ते लक्षं साक्षाज्जपेद् यः करसमविधिना सत्तपा ब्रह्मचारी । निर्यान्तीं चन्द्रबिम्बात् कलयति मनसा त्वां जगच्चन्द्रिकाभां सोऽत्यर्थं वह्निकुण्डे विहितघृतहुतिः स्याद् दशांशेन विद्वान् ॥ १० ॥ (शार्दूलविक्रीडितम्) रे रे लक्षण - काव्य - नाटक - कथा - चम्पूसमालोकने क्वायासं वितनोषि बालिश ! मुधा किं नम्रवक्राम्बुजः ? । भक्त्याऽऽराधय मन्त्रराजमहसाऽनेनानिशं भारती येन त्वं कवितावितानसविताऽद्वैतप्रबुद्धायसे ॥ ११ ॥ बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा चञ्चच्चन्द्रमुखी प्रसिद्धमहिमा स्वाच्छन्द्यराज्यप्रदानायासेन सुरासुरेश्वरगणैरभ्यर्चिता भक्तितः । देवी संस्तुतवैभवा मलयजालेपाङ्गरङ्गद्युतिः सा मां पातु सरस्वती भगवती त्रैलोक्यसंजीविनी ॥ १२ ॥ (द्रुतविलम्बितम् ) स्तवनमेतदनेकगुणान्वितं पठति यो भविकः प्रमनाः प्रगे । स सहसा मधुरैर्वचनामृतै र्नृपगणानपि रञ्जयति स्फुटम् ॥ १३ ॥

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286