Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 259
________________ संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि १६७ नमः परमयोगाय जनस्तुभ्यमयोनये । नमः परमपूताय नमस्ते परमर्षये ॥ ७७ ॥ नमः परमविद्याय नमः परमतच्छिदे । नमः परमतत्त्वाय नमस्ते परमात्मने ॥ ७८ ॥ नमः परमरूपाय नमः परमतेजसे । नमः परममार्गाय नमस्ते परमेष्ठिने ॥ ७९ ॥ परमं भेजुषे धाम परमज्योतिषे नमः । नमः पारेतमः प्राप्तधाम्ने परतरात्मने ॥ ८० ॥ नमः क्षीणकलङ्काय क्षीणबन्ध नमोऽस्तु ते । नमस्ते क्षीणमोहाय क्षीणदोषाय ते नमः ॥ ८१ ॥ नमः सुगतये तुभ्यं शोभनां गतिमीयुषे । नमस्तेऽतीन्द्रियज्ञानसुखायानिन्द्रियात्मने ॥ ८२ ॥ कायबन्धननिर्मोक्षादकायाय नमोऽस्तु ते । नमस्तुभ्यमयोगाय योगिनामधियोगिने ॥ ८३ ॥ अवेदाय नमस्तुभ्यमकषायाय ते नमः । नमः परमयोगेन्द्र वन्दिताङ्घ्रिद्वयाय ते ॥ ८४ ॥ नमः परमविज्ञान नमः परमसंयम । नमः परमग्दृष्टपरमार्थाय तायिने ॥ ८५ ॥ नमस्तुभ्यमलेश्याय शुद्धलेश्यांशकस्पृशे । नमो भव्येतरावस्थाव्यतीताय विमोक्षिणे ॥ ८६ ॥ संजयसंज्ञिद्वयास्थाव्यतिरिक्तामलात्मने । नमस्ते वीतसंज्ञाय नमः क्षायिकदृष्टये ॥ ८७ ॥ अनाहाराय तृप्ताय नमः परमभाजुषे । व्यतीताशेषदोषाय भवाब्धेः पारमायुषे ॥ ८८ ॥ अजराय नमस्तुभ्यं नमस्ते स्तादजन्मने । अमृत्यवे नमस्तुभ्यमचलायाक्षरात्मने ॥ ८९ ॥ अलमास्तां गुणस्तोत्रमनन्तास्तावका गुणाः । त्वां नामस्मृतिमात्रेण पर्युपासिसिषामहे ॥ ९० ॥

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286