Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 268
________________ १७६ बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा श्रेयोनिधिरधिष्ठानमप्रतिष्ठः प्रतिष्ठितः । सुस्थिरः स्थावरः स्थास्नुः प्रथीयान् प्रथितः पृथुः ॥ १९५ ॥ इति त्रिकालदर्यादिशतम् । दिग्वासा वातरशनो निर्ग्रन्थेशो निरम्बरः ।। निष्किञ्चनो निराशंसो ज्ञानचक्षुरमोमुहः ॥ १९६ ॥ तेजोराशिरनन्तौजा ज्ञानाब्धिः शीलसागरः । तेजोमयोऽमितज्योतिर्योंतिमूर्तिस्तमोपहः ॥ १९७ ॥ जगच्चूडामणिर्दीप्तः शंवान् विघ्नविनायकः । कलिघ्नः कर्मशत्रुनो लोकालोकप्रकाशकः ॥ १९८ ॥ अनिद्रालुरतन्द्रालुर्जागरूकः प्रमामयः । लक्ष्मीपतिर्जगज्योतिर्धर्मराजः प्रजाहितः ॥ १९९ ॥ मुमुक्षुर्बन्धमोक्षज्ञो जिताक्षो जितमन्मथः । प्रशान्तरसशैलूषो भव्यपेटकनायकः ॥ २०० ॥ मूलक खिलज्योतिर्मलनो मूलकारणम् । आप्तो वागीश्वरः श्रेयान् श्रायसोक्तिर्निरुक्तवाक् ॥ २०१ ॥ प्रवक्ता वचसामीशो मारजिद्विश्वभाववित् । सुतनुस्तनुनिर्मुक्तः सुगतो हतदुर्नयः ॥ २०२ ॥ श्रीशः श्रीश्रितपादाब्जो वीतभीरभयङ्करः । उत्सन्नदोषो निर्विनो निश्चलो लोकवत्सलः ॥ २०३ ॥ लोकोत्तरो लोकपतिर्लोकचक्षुरपारधीः । धीरधीर्बुद्धसन्मार्गः शुद्धः सूनृतपूतवाक् ॥ २०४ ॥ प्रज्ञापारमितः प्राज्ञो यतिनियमितेन्द्रियः । भदन्तो भद्रकृद्भद्रः कल्पवृक्षो वरप्रदः ॥ २०५ ॥ समुन्मीलितकर्मारिः कर्मकाष्ठाशुशुक्षणिः । कर्मण्यः कर्मठः पांशुखैयादेयविचक्षणः ॥ २०६ ॥ अनन्तशक्तिरच्छेद्यस्त्रिपुरारुस्त्रिलोचनः । त्रिनेत्रस्त्र्यम्बकस्त्र्यक्षः केवलज्ञानवीक्षणः ॥ २०७ ॥

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286