Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
१७३
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
सर्वयोगीश्वरोऽचिन्त्यः श्रुतात्मा विष्टरश्रवाः । दान्तात्मा दमतीर्थेशो योगात्मा ज्ञानसर्वगः ॥ १५६ ॥ प्रधानमात्मा प्रकृतिः परमः परमोदयः । प्रक्षीणबन्धः कामारिः क्षेमकृत् क्षेमशासनः ॥ १५७ ॥ प्रणवः प्रणतः प्राणः प्राणदः प्राणतेश्वरः । प्रमाणं प्रणिधिदक्षो दक्षिणोऽध्वर्युरध्वरः ॥ १५८ ॥ आनन्दो नन्दनो नन्दो वन्द्योऽनिन्द्योऽभिनन्दनः । कामहा कामदः काम्यः कामधेनुररिञ्जयः ॥ १५९ ॥
इति महामुन्यादिशतम् । असंस्कृतसुसंस्कारः प्राकृतो वैकृतान्तकृत् । अन्तकृत् कान्तगुः कान्तश्चिन्तामणिरभीष्टदः ॥ १६० ॥ अजितो जितकामारिरमितोऽमितशासनः । जितक्रोधो जितामित्रो जितक्लेशो जितान्तकः ॥ १६१ ॥ जिनेन्द्रः परमानन्दो मुनीन्द्रो दुन्दुभिस्वनः । महेन्द्रवन्द्यो योगीन्द्रो यतीन्द्रो नाभिनन्दनः ॥ १६२ ॥ नाभेयो नाभिजोऽजातः सुव्रतो मनुरुत्तमः । अभेद्योऽनत्ययोऽनाश्वानधिकोऽधिगुरुः सुधीः ॥ १६३ ॥ सुमेधा विक्रमी स्वामी दुराधर्षों निरुत्सुकः । विशिष्टः शिष्टभुक् शिष्टः प्रत्ययः कामनोऽनघः ॥ १६४ ॥ क्षेमी क्षेमङ्करोऽक्षय्यः क्षेमधर्मपतिः क्षमी । अग्राह्यो ज्ञाननिग्राह्यो ध्यानगम्यो निरुत्तरः ॥ १६५ ॥ सुकृती धातुरिज्याहः सुनयश्चतुराननः । श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुखः ॥ १६६ ॥ सत्यात्मा सत्यविज्ञानः सत्यवाक् सत्यशासनः । सत्याशीः सत्यसन्धानः सत्यः सत्यपरायणः ॥ १६७ ॥ स्थेयान् स्थवीयान्नेदीयान् दवीयान् दूरदर्शनः । अणोरणीयाननणुर्गुरुराद्यो गरीयसाम् ॥ १६८ ॥

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286