Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
१७०
बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
विनेयजनताबन्धुर्विलीनाशेषकल्मषः । वियोगो योगविद् विद्वान् विधाता सुविधिः सुधीः ॥ ११७ ॥
क्षान्तिभाक् पृथिवीमूर्तिः शान्तिभाक् सलिलात्मकः । वायुमूर्तिरसङ्गगात्मा वह्निमूर्तिरधर्मधक् ॥ ११८ ॥
सुयज्वा यजमानात्मा सुत्वा सुत्रामपूजितः । ऋत्विग् यज्ञपतिर्याज्यो यज्ञाङ्गममृतं हविः ॥ ११९ ॥ व्योममूर्तिरमूर्तात्मा निर्लेपो निर्मलोऽचलः । सोममूर्तिः सुसौम्यात्मा सूर्यमूर्तिर्महाप्रभः ॥ १२० ॥
मन्त्रविन्मन्त्रकृन्मन्त्री मन्त्रमूर्तिरनन्तगः ।
स्वतन्त्रस्तन्त्रकृत् स्वन्तः कृतान्तान्तः कृतान्तकृत् ॥ १२१ ॥
कृती कृतार्थः सत्कृत्यः कृतकृत्यः कृतक्रतुः । नित्यो मृत्युंजयोऽमृत्युरमृतात्माऽमृतोद्भवः ॥ १२२ ॥
ब्रह्मनिष्ठः परब्रह्म ब्रह्मात्मा ब्रह्मसंभवः । महाब्रह्मपतिर्ब्रह्मेड् महाब्रह्मपदेश्वरः ॥ १२३ ॥
सुप्रसन्नः प्रसन्नात्मा ज्ञानधर्मपदप्रभुः । प्रशमात्मा प्रशान्तात्मा पुराणुपुरुषोत्तमः ॥ १२४ ॥
महाशोकध्वजोऽशोकः कः स्रष्टा पद्मविष्टरः । पद्मेशः पद्मसंभूतिः पद्मनाभिरनुत्तरः ॥ १२५ ॥ पद्मयोनिर्जगद्योनिरित्यः स्तुत्यः स्तुतीश्वरः । स्तवनार्हो हृषीकेशो जितजेयः कृतक्रियः ॥ १२६ ॥ गणाधिपो गणज्येष्ठ गण्यः पुण्यो गणाग्रणी । गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणनायकः ॥ १२७ ॥
इति स्थविष्ठादिशतम् ।
गुणाद गुणोच्छेदी निर्गुणः पुण्यगीर्गुणः । शरण्यः पुण्यवाक्पूतो वरेण्यः पुण्यनायकः ॥ १२८ ॥
अगण्यः पुण्यधीर्गुण्यः पुण्यकृत् पुण्यशासनः । धर्मारामो गुणग्रामः पुण्यापुण्यनिरोधकः ॥ १२९ ॥

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286