________________
१४४
चकितबालकुरङ्गविलोचना जनमनांसि हरन्तितरां नराः ॥ ७ ॥
करसरोरुहखेलनचञ्चला
तव विभाति वरा जपमालिका ।
श्रुतपयोनिधिमध्यविकस्वरो
ज्जवलतरङ्गकलाग्रहसाग्रहा ॥ ८ ॥
द्विरदकेसरिमारिभुजङ्गमासहनतस्करराजरुजां भयम् ।
तव गुणावलिगानतरङ्गिणां
न भविनां भवति श्रुतदेव ॥ ९ ॥
(स्रग्धरावृत्तम्)
ॐ ह्रीं क्लीं ब्लीं ततः श्रीं तदनु हसकलीमथो ऐं नमोऽन्ते लक्षं साक्षाज्जपेद् यः करसमविधिना सत्तपा ब्रह्मचारी । निर्यान्तीं चन्द्रबिम्बात् कलयति मनसा त्वां जगच्चन्द्रिकाभां
सोऽत्यर्थं वह्निकुण्डे विहितघृतहुतिः स्याद् दशांशेन विद्वान् ॥ १० ॥
(शार्दूलविक्रीडितम्)
रे रे लक्षण - काव्य - नाटक - कथा - चम्पूसमालोकने क्वायासं वितनोषि बालिश ! मुधा किं नम्रवक्राम्बुजः ? । भक्त्याऽऽराधय मन्त्रराजमहसाऽनेनानिशं भारती
येन त्वं कवितावितानसविताऽद्वैतप्रबुद्धायसे ॥ ११ ॥
बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
चञ्चच्चन्द्रमुखी प्रसिद्धमहिमा स्वाच्छन्द्यराज्यप्रदानायासेन सुरासुरेश्वरगणैरभ्यर्चिता भक्तितः । देवी संस्तुतवैभवा मलयजालेपाङ्गरङ्गद्युतिः
सा मां पातु सरस्वती भगवती त्रैलोक्यसंजीविनी ॥ १२ ॥
(द्रुतविलम्बितम् )
स्तवनमेतदनेकगुणान्वितं
पठति यो भविकः प्रमनाः प्रगे ।
स सहसा मधुरैर्वचनामृतै
र्नृपगणानपि रञ्जयति स्फुटम् ॥ १३ ॥