________________
(३३) श्रीभद्रकीर्तिसूरिभिर्विरचितं 'श्रीशारदास्तोत्रम्'
(ईस्वी अष्टमशताब्धाः अन्तिमचरणः)
(द्रुतविलम्बितम्) कलमरालविहङ्गमवाहना
सितदुकूलविभूषणलेपना । प्रणतभूमिरुहामृतसारिणी
प्रवरदेहविभाभरधारिणी ॥ अमृतपूर्वकमण्डलुहारिणी
त्रिदशदानवमानवसेविता । भगवती परमैव सरस्वती
मम पुनातु सदा नयनाम्बुजम् ॥ १-२ ॥ -युग्मम् जिनपतिप्रथिताखिलवाङ्मयी
गणधराननमण्डपनर्तकी । गुरुमुखाम्बुजखेलनहंसिका
विजयते जगति श्रुतदेवता ॥ ३ ॥ अमृतदीधितिबिम्बसमाननां
त्रिजगतीजननिर्मितमाननाम् । नवरसामृतवीचिसरस्वती
प्रमुदितः प्रणमामि सरस्वतीम् ॥ ४ ॥ विततकेतकपत्रविलोचने !
विहितसंसृतिदुष्कृतमोचने ! । धवलपक्षविहङ्गमलाञ्छिते !
जय सरस्वति ! पूरितवाञ्छिते ! ॥ ५ ॥ भवदनुग्रहलेशतरङ्गिता
स्तदुचितं प्रवदन्ति विपश्चितः । नृपसभासु यतः कमलाबला
कुचकलाललनानि वितन्वते ॥ ६ ॥ गतधना अपि हि त्वदनुग्रहात्
कलितकोमलवाक्यसुधोर्मयः ।