Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 253
________________ (३९) श्रीआदिपुराणान्तर्गता श्रीसौधर्मेन्द्रप्रणीता श्रीऋषभजिनविभूत्यादिवर्णनासमेता 'श्रीजिनसहस्रनाममहास्तुतिः' (प्राय: ईस्वी ८२५-८३५) (अनुष्टुभ्) स्तोष्ये त्वां परमं ज्योतिर्गुणरत्नमहाकरम् । मतिप्रकर्षहीनोऽपि केवलं भक्तिचोदितः ॥ १ ॥ त्वामभिष्टवतां भक्त्या विशिष्टाः फलसम्पदः । स्वयमाविर्भवन्तीति निश्चित्य त्वां जिन स्तुवे ॥ २ ॥ स्तुतिः पुण्यगुणोत्कीर्तिः स्तोता भव्यः प्रसन्नधीः । निष्ठितार्थो भवान् स्तुत्यः फलं नैःश्रेयसं सुखम् ॥ ३ ॥ इत्याकलय्य मनसा तुष्टषु मां फलार्थिनम् । विभो प्रसन्नया दृष्ट्या त्वं पुनीहि सनातन ॥ ४ ॥ मामुदाकुरुते भक्तिस्त्वद्गुणैः परिचोदिता । ततः स्तुतिपथे तेऽस्मिन् लग्नः संविग्नमानसः ॥ ५ ॥ त्वयि भक्तिः कृताल्पापि महती फलसम्पदम् । पम्फलीति विभो कल्पक्ष्माजसेवेव ऐहिनाम् ॥ ६ ॥ तवारिजयमाचष्टे वपुरस्पृष्टकैतवम् । दोषावेशविकारा हि रागिणां भूषणादयः ॥ ७ ॥ निर्भूषमपि कान्तं ते वपुर्भुवनभूषणम् । दीप्रं हि भूषणं नैव भूषणान्तरमीक्षते ॥ ८ ॥ न मूनि कबरीबन्धो न शेखरपरिग्रहः । न किरीटादिभारस्ते तथापि रुचिरं शिरः ॥९॥ न मुखे भ्रुकुटीन्यासो न दृष्टो दशनच्छदः । नास्त्रे व्यापारितो हस्तस्तथापि त्वमरीनहन् ॥ १० ॥

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286