Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 256
________________ १६४ बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा अच्छायत्वमनुन्मेषनिमेषत्वं च ते वपुः । धत्ते तेजोमयं दिव्यं परमौदारिकाह्वयम् ॥ ३८ ॥ बिभ्राणोऽप्यध्यधिच्छत्रमच्छायाङ्गस्त्वमीक्ष्यसे । महतां चेष्टितं चित्रमथवौजस्तवेदृशम् ॥ ३९ ॥ निमेषापायधीराक्षं तव वक्त्राब्जमीक्षितम् । त्वयेव नयनस्पन्दो नूनं देवैश्च संहतः ॥ ४० ॥ नखकेशमितावस्था तवाविष्कुरुते विभो । रसादिविलयं देहे विशुद्धस्फटिकामले ॥ ४१ ॥ इत्युदारैर्गुणैरेभिस्त्वमनन्यत्रभाविभिः । स्वयमेत्य वृतो नूनमदृष्टशरणान्तरैः ॥ ४२ ॥ अप्यमी रूपसौन्दर्यकान्तिदीप्त्यादयो गुणाः । स्पृहणीयाः सुरेन्द्राणां तव हेयाः किलाद्भुतम् ॥ ४३ ॥ गुणिनं त्वामुपासीना निर्धूतगुणबन्धनाः । त्वया सारूप्यमायान्ति स्वामिच्छन्दं नु शिक्षितुः ॥ ४४ ॥ अयं मन्दानिलोद्धतचलच्छाखाकरोत्करैः । श्रीमानशोकवृक्षस्ते नृत्यतीवात्तसम्मदः ॥ ४५ ॥ चलत्क्षीरोदवीथिभि: स्पर्धां कर्तुमिवाभितः । चामरौघाः पतन्ति त्वां मरुद्भिर्लीलया धुताः ॥ ४६ ॥ मुक्तालम्बनविभ्राजि भ्राजते विधुनिर्मलम् । छत्रत्रयं तवोन्मुक्तप्रारोहमिव खाङ्गणे ॥ ४७ ॥ सिंहरूढं विभातीदं तव विष्टरमुच्चकैः । रत्नांशुभिर्भवत्स्पर्शान्मुक्तहर्षाङ्कुरैरिव ॥ ४८ ॥ ध्वनन्ति मधुरध्वानाः सुरदुन्दुभिकोटयः । घोषयत्य इवापूर्य रोदसी त्वज्जयोत्सवम् ॥ ४९ ॥ तव दिव्यध्वनिं धीरमनुकर्तुमिवौद्यताः । ध्वनन्ति सुरतूर्याणां कोट्यो ऽर्धत्रयोदश ॥ ५० ॥

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286