________________
१६४
बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
अच्छायत्वमनुन्मेषनिमेषत्वं च ते वपुः । धत्ते तेजोमयं दिव्यं परमौदारिकाह्वयम् ॥ ३८ ॥
बिभ्राणोऽप्यध्यधिच्छत्रमच्छायाङ्गस्त्वमीक्ष्यसे । महतां चेष्टितं चित्रमथवौजस्तवेदृशम् ॥ ३९ ॥ निमेषापायधीराक्षं तव वक्त्राब्जमीक्षितम् । त्वयेव नयनस्पन्दो नूनं देवैश्च संहतः ॥ ४० ॥ नखकेशमितावस्था तवाविष्कुरुते विभो । रसादिविलयं देहे विशुद्धस्फटिकामले ॥ ४१ ॥
इत्युदारैर्गुणैरेभिस्त्वमनन्यत्रभाविभिः । स्वयमेत्य वृतो नूनमदृष्टशरणान्तरैः ॥ ४२ ॥ अप्यमी रूपसौन्दर्यकान्तिदीप्त्यादयो गुणाः । स्पृहणीयाः सुरेन्द्राणां तव हेयाः किलाद्भुतम् ॥ ४३ ॥
गुणिनं त्वामुपासीना निर्धूतगुणबन्धनाः । त्वया सारूप्यमायान्ति स्वामिच्छन्दं नु शिक्षितुः ॥ ४४ ॥ अयं मन्दानिलोद्धतचलच्छाखाकरोत्करैः । श्रीमानशोकवृक्षस्ते नृत्यतीवात्तसम्मदः ॥ ४५ ॥
चलत्क्षीरोदवीथिभि: स्पर्धां कर्तुमिवाभितः । चामरौघाः पतन्ति त्वां मरुद्भिर्लीलया धुताः ॥ ४६ ॥
मुक्तालम्बनविभ्राजि भ्राजते विधुनिर्मलम् । छत्रत्रयं तवोन्मुक्तप्रारोहमिव खाङ्गणे ॥ ४७ ॥ सिंहरूढं विभातीदं तव विष्टरमुच्चकैः । रत्नांशुभिर्भवत्स्पर्शान्मुक्तहर्षाङ्कुरैरिव ॥ ४८ ॥
ध्वनन्ति मधुरध्वानाः सुरदुन्दुभिकोटयः । घोषयत्य इवापूर्य रोदसी त्वज्जयोत्सवम् ॥ ४९ ॥
तव दिव्यध्वनिं धीरमनुकर्तुमिवौद्यताः । ध्वनन्ति सुरतूर्याणां कोट्यो ऽर्धत्रयोदश ॥ ५० ॥