SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ संस्कृतभाषानिबद्धानि स्तुति स्तोत्राणि अस्वेदमलमाभाति सुगन्धि शुभलक्षणम् । सुसंस्थानमरक्ता सृग्वपुर्वज्रस्थिरं तव ॥ २५ ॥ सौरूप्यं नयनाह्लादि सौभाग्यं चित्तरञ्जनम् । सुवाक्त्वं जगदानन्दि तवासाधारणा गुणाः ॥ २६ ॥ अमेयमपि ते वीर्यं मितं देहे प्रभान्विते । स्वल्पेऽपि दर्पणे बिम्बं माति स्ताम्बेरमं ननु ॥ २७ ॥ त्वदास्थानस्थितोद्देशं परितः शतयोजनम् । सुलभाशनपानादि त्वन्महिम्नोपजायते ॥ २८ ॥ गगनानुगतं यानं तवासीद् भुवमस्पृशत् । दैवासुरं भरं सोढुमक्षमा धरणीति नु ॥ २९ ॥ क्रूरैरपि मृगैर्हिस्त्रैर्हन्यन्ते जातु नाङ्गिनः । सद्धर्मदेशनोद्युक्ते त्वयि संजीवनौषधे ॥ ३० ॥ न भुक्तिः क्षीणमोहस्य तवानन्तसुखोदयात् । क्षुत्क्लेशबाधितो जन्तुः कवलाहारभुग्भवेत् ॥ ३१ ॥ असद्योदयाद् भुक्तिं त्वयि यो योजयेदधीः । मोहानिलप्रतीकारे तस्यान्वेष्यं जरद्धृतम् ॥ ३२ ॥ असद्वेद्यविषं घाति विध्वंसध्वस्तशक्तिकम् । त्वय्यकिञ्चित्करं मन्त्रशक्त्येवापबलं विषम् ॥ ३३ ॥ असद्वेद्योदयो घातिसहकारिव्यपायतः । त्वय्यकिञ्चित्करो नाथ सामग्रया हि फलोदयः ॥ ३४ ॥ नेतयो नोपसर्गाश्च प्रभवन्ति त्वयीशिनि । जगतां पालके लाक्षालितांहः कलङ्कके ॥ ३५ ॥ त्वय्यनन्तमुखोत्सर्पत्केवलामललोचने । चातुरास्यमिदं युक्तं नष्टघातिचतुष्टये ॥ ३६ ॥ सर्वविद्येश्वरो योगी चतुरास्यस्त्वमक्षरः । सर्वतोऽक्षिमयं ज्योतिस्तन्वानो भास्यधीशितः ॥ ३७ ॥ १६३
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy