________________
१६२
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा त्वया नाताम्रिते नेत्रे नीलोत्पलदलायते । मोहारिविजये देव प्रभुशक्तिस्तवाद्भुता ॥ ११ ॥ अपापागावलोकं ते जिनेन्द्र नयनद्वयम् । मदनारिजयं वक्ति व्यक्तं नः सौम्यवीक्षितम् ॥ १२ ॥ त्वदृशोरमला दीप्तिरास्पृशन्ती शिरस्सु नः । पुनाति पुण्यधारेव जगतामेकपावनी ॥ १३ ॥ तवेदमाननं धत्ते प्रफुल्लकमलश्रियम् । स्वकान्तिज्योत्स्नया विश्वमाक्रामच्छरदिन्दुवत् ॥ १४ ॥ अनट्टहासहुङ्कारमदष्टोष्ठपुटं मुखम् । जिनाख्याति सुमेधोभ्यस्तावकी वीतरागताम् ॥ १५ ॥ त्वन्मुखादुद्यती दीप्तिः पावनीव सरस्वती । विधुन्वती तमो भाति जितबालातपद्युतिः ॥ १६ ॥ त्वन्मुखाम्बुरुहालग्ना सुराणां नयनावलिः । भातीयमलिमालेव तदामोदानुपातिनी ॥ १७ ॥ मकरन्दमिवापीय त्वद्वक्त्राब्जोद्गतं वचः । अनाशितं भवं भव्यभ्रमरा यान्त्यमी मुदम् ॥ १८ ॥ एकतोऽभिमुखोऽपि त्वं लक्ष्यसे विश्वतोमुखः । तेजोगुणस्य माहात्म्यमिदं नूनं त्वाद्भुतम् ॥ १९ ॥ विश्वदिक्षु विसर्पन्ति तावका वागभीषवः । तिरश्चामपि हृद्ध्वान्तमुद्धन्वन्तो जिनांशुमान् ॥ २० ॥ तव वागमृतं पीत्वा वयमद्यामराः स्फुटम् । पीयूषमिदमिष्टं नो देव सर्वरुजाहरम् ॥ २१ ॥ जिनेन्द्र तव वक्त्राब्जं प्रक्षरद्वचनामृतम् । भव्यानां प्रीणनं भाति धर्मस्येव निधानकम् ॥ २२ ॥ मुखेन्दुमण्डलाद्देव तव वाक्किरणा इमे । विनिर्यान्तो हतध्वान्ताः सभामाह्लादयत्यलम् ॥ २३ ॥ चित्रं वाचां विचित्राणामक्रमः प्रभवः प्रभो । अथवा तीर्थकृत्त्वस्य देव वैभवमीदृशम् ॥ २४ ॥