Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
१५७
(तामरसवृत्तम्)
जिनवरमोहमहापृतनेशान् प्रबलतरांश्चतुरस्तु कषायान् निशिततपोमयतीव्रमहांसि प्रहतिभिराशुतरामजयस्त्वम् ॥ १० ॥ मनसिजशत्रुमजय्यमलक्ष्यं विरतिमयी शितहेतिततिस्ते । समरभरे विनिपातयति स्म त्वमसि ततो भुवनैकगरिष्ठः ॥ ११ ॥ जितमदनस्य तवेश महत्त्वं वपुरिदमेव हि शास्ति मनोज्ञम् । न विकृतिभाग्न कटाक्षनिरीक्षा परमविकारमनाभरणोद्घम् ॥ १२ ॥ प्रविकुरुते हृदि यस्य मनोजः स विकुरुते स्फुटरागपरागः । विकृतिरनङ्गजितस्तव नाभूद् विभवभवान्भुवनैकगुरुस्तत् ॥ १३ ॥ स किल विनृत्यति गायति वल्गत्यपलापति प्रहसत्यपि मूढः । मदनवशो जितमन्मथ ते तु प्रशमसुखं वपुरेव निराह ॥ १४ ॥
(नवमालिनीवृत्तम्) विरहितमानमत्सर तवेदं वपुरपरागमस्तकलिपङ्कम् । तव भुवनेश्वरत्वमपरागं प्रकटयति स्फुटं निकृतिहीनम् ॥ १५ ॥ तव वपुरामिलत्सकलशोभासमुदयमस्तवस्त्रमपि रम्यम् । अतिरुचिरस्य रत्नमणिराशेरपवरणं किमिष्टमुरुदीप्तेः ॥ १६ ॥ स्विदिरहितं विहीनमलदोषं सुरभितरं सुलक्ष्मघटितं ते । क्षतजवियुक्तमस्ततिमिरौघं व्यपगतधातु वज्रघनसन्धि ॥ १७ ॥ समचतुरस्रमप्रमितवीर्यं प्रियहितवाग्निमेषपरिहीनम् । वपुरिदमच्छदिव्यमणिदीप्रं त्वमसि ततोऽधिदेवपदभागी ॥ १८ ॥ इदमतिमानुषं तव शरीरं सकलविकारमोहमदहीनम् । प्रकटयतीश ते भुवनलब्धि प्रभुतमवैभवं कनककान्ति ॥ १९ ॥
(प्रमुदितवदनावृत्तम्) स्पृशति न हि भवन्तमागश्च यः किमु दिनपमभिद्रवेत्तामसम् । वितिमिर स भवान् जगत्साधने ज्वलदुरुमहसा प्रदीपायते ॥ २० ॥

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286