SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि १५७ (तामरसवृत्तम्) जिनवरमोहमहापृतनेशान् प्रबलतरांश्चतुरस्तु कषायान् निशिततपोमयतीव्रमहांसि प्रहतिभिराशुतरामजयस्त्वम् ॥ १० ॥ मनसिजशत्रुमजय्यमलक्ष्यं विरतिमयी शितहेतिततिस्ते । समरभरे विनिपातयति स्म त्वमसि ततो भुवनैकगरिष्ठः ॥ ११ ॥ जितमदनस्य तवेश महत्त्वं वपुरिदमेव हि शास्ति मनोज्ञम् । न विकृतिभाग्न कटाक्षनिरीक्षा परमविकारमनाभरणोद्घम् ॥ १२ ॥ प्रविकुरुते हृदि यस्य मनोजः स विकुरुते स्फुटरागपरागः । विकृतिरनङ्गजितस्तव नाभूद् विभवभवान्भुवनैकगुरुस्तत् ॥ १३ ॥ स किल विनृत्यति गायति वल्गत्यपलापति प्रहसत्यपि मूढः । मदनवशो जितमन्मथ ते तु प्रशमसुखं वपुरेव निराह ॥ १४ ॥ (नवमालिनीवृत्तम्) विरहितमानमत्सर तवेदं वपुरपरागमस्तकलिपङ्कम् । तव भुवनेश्वरत्वमपरागं प्रकटयति स्फुटं निकृतिहीनम् ॥ १५ ॥ तव वपुरामिलत्सकलशोभासमुदयमस्तवस्त्रमपि रम्यम् । अतिरुचिरस्य रत्नमणिराशेरपवरणं किमिष्टमुरुदीप्तेः ॥ १६ ॥ स्विदिरहितं विहीनमलदोषं सुरभितरं सुलक्ष्मघटितं ते । क्षतजवियुक्तमस्ततिमिरौघं व्यपगतधातु वज्रघनसन्धि ॥ १७ ॥ समचतुरस्रमप्रमितवीर्यं प्रियहितवाग्निमेषपरिहीनम् । वपुरिदमच्छदिव्यमणिदीप्रं त्वमसि ततोऽधिदेवपदभागी ॥ १८ ॥ इदमतिमानुषं तव शरीरं सकलविकारमोहमदहीनम् । प्रकटयतीश ते भुवनलब्धि प्रभुतमवैभवं कनककान्ति ॥ १९ ॥ (प्रमुदितवदनावृत्तम्) स्पृशति न हि भवन्तमागश्च यः किमु दिनपमभिद्रवेत्तामसम् । वितिमिर स भवान् जगत्साधने ज्वलदुरुमहसा प्रदीपायते ॥ २० ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy