________________
१५८
बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
(जलधरमालावृत्तम् )
रैधारा ते द्युसम वतारेऽपप्तन्नाकेशानां पदविमशेषां रुध्वा । स्वर्गादारात् कनकमयीं वा सृष्टिं तन्वानसौ भुवनकुटीरस्यान्तः ॥ २१ ॥ रैधारैरावतकरदीर्घा रेजे रे जेतारं भजत जना इत्येवम् । मूर्तीभूता तव जिनलक्ष्मीर्लोके संबोधं वा सपदि समातन्वाना ॥ २२ ॥ त्वत्संभूतौ सुरकरमुक्ता व्योम्नि पौष्पी वृष्टिः सुरभितरा संरेजे मत्तालीनां कलरुतमातन्वाना नाकस्त्रीणां नयनततिर्वा यान्ती ॥ २३ ॥ मेरोः श्रृङ्गे समजनि दुग्धाम्भोधेः स्वच्छाम्भोभिः कनकघटैर्गम्भीरैः । माहात्म्यं ते जगति वितन्वन्भावि स्वधौरेयैर्गुरुरभिषेकः पूतः ॥ २४ ॥ त्वां निष्क्रान्तौ मणिमययानारूढं वोढुं सज्जा वयमिति नैतच्चित्रम् । आनिर्वाणान्नियतममी गीर्वाणाः किंकुर्वाणा ननु जिन कल्याणे ते ॥ २५ ॥
।
त्वं धातासि त्रिभुवनभर्ताद्यत्वे कैवल्यार्के स्फुटमुदितेऽस्मिन् तस्माद्देवं जननजरातङ्कारिं त्वां नन्नमो गुणविधिमग्र्यं लोके ॥ १६ ॥
(प्रहर्षिणीवृत्तम्)
त्वं मित्रं त्वमसि गुरुस्त्वमेव भर्ता त्वं स्रष्टा भुवनपितामहस्त्वमेव ।
त्वां ध्यायन्नमृतिसुखं प्रयाति जन्तुस्त्रायस्य त्रिजगदिदं त्वमद्य पातात् ॥ २७ ॥ ( रुचिरावृत्तम्)
परं पदं परमसुखोदयास्पदं विवित्सवश्चिरमहि योगिनोऽक्षरम् । त्वयोदितं जिन परमागमाक्षरं विचिन्वते भवविलयाय सद्धियः ॥ २८ ॥
त्वयोदिते पथि जिन ये वितन्वतेः परां धृतिं प्रमदपरम्परायुजः । त एव संसृतिलत्तिकां प्रतायिनीं दहृत्यलं स्मृतिदहनार्चिषा भृशम् ॥ २९ ॥
(मत्तमयूरवृत्तम्)
वातोद्धूताः क्षीरपयोधेरिव वीचीरुत्प्रेक्ष्यामूश्चामरपङ्क्तीर्भवदीयाः । पीयूषांशोर्दीप्तिसमे तीरिव शुभ्रा मोमुच्यन्ते संसृतिभाजो भवबन्धात् ॥ ३० ॥
सैंहं पीठं स्वां द्युतिमिद्धामतिभानुं तन्वानं तद्भाति विभोस्ते पृथु तुङ्गम् । मेरोः श्रृङ्गं वा मणिनद्धं सुरसेव्यं न्यक्कुर्वाणं लोकमशेषं स्वमहिम्ना ॥ ३१ ॥