________________
१५९
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
(मञ्जुभाषिणीवृत्तम्) महितोदयस्य शिवमार्गदेशिनः सुरशिल्पनिर्मितमदोऽर्हतस्तव । प्रथते सितातपनिवारणत्रयं शरदिन्दुबिम्बमिव कान्तिमत्तया ॥ ३२ ॥
(छन्दः अनिर्णीतः) वक्षोऽशोको मरकतरुचिरस्कन्धो भाति श्रीमानयमतिरुचिराः शाखाः । बाहूकृत्य स्फुटमिव नटितं तन्वन्वातोद्भूतः कलरुतमधुकृन्मालः ॥ ३३ ॥ पुष्पाकीर्णो नृसुरमुनिवरैः कान्तो मन्दं मन्दं मृदुतरपवना धूतः । सच्छायोऽयं विहत नृशुगशोकोऽगो भाति श्रीमांस्त्वमिव हि जगतां श्रेयः ॥ ३४ ॥
(असम्बाधावृत्तम्) व्याप्ताकाशां वृष्टिमलिकुलरुतोद्गीतां पौष्पी देवास्त्वां प्रतिभुवनगृहस्याग्रात् । मुञ्चत्येते दुन्दुभिमधुरदैः सार्धं प्रावृङ्जीमूतान् स्तनितमुखरिताञ्जित्वा ॥ ३५ ॥
(अपराजितावृत्तम्) त्वदमरपटहैविशङ्क्य घनागमं पटुजलदघटानिरुद्धनभोङ्गणम् । विरचितरुचिमत्कलापसुमन्थरा मदकलमधुना रुवन्ति शिखाबलाः ॥ ३६ ॥
(प्रहरणकलिकावृत्तम् ) तव जिन ततदेहरुचिशरवण चमररुहततिः सितविहगरुचिम् । इयमनुतनुते रुचिरतरतनुर्मणिमुकुटसमिद्धरुचिसुरधुता ॥ ३७ ॥
(वसन्ततिलकावृत्तम्) त्वहिव्यवागियमशेषपदार्थगर्भा
भाषान्तराणि सकलानि निदर्शयन्ती । तत्त्वावबोधमचिरात् कुरुते बुधानां
स्याद्वादनीति विहतान्धमतान्धकारा ॥ ३८ ॥ प्रक्षालयत्यखिलमेव मनोमलं
नस्त्वद्भारतीमयमिदं शुचिपुण्यमम्बु । तीर्थं तदेव हि विनेयजनाजवञ्ज
वावारसन्तरणवर्ती भवत्प्रणीतम् ॥ ३९ ॥