________________
१६०
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा त्वं सर्वगः सकलवस्तुगतावबोध
स्त्वं सर्ववित्प्रमितविश्वपदार्थसार्थः । त्वं सर्वजिद्विदितमन्मथमोहशत्रु
स्त्वं सर्वदृनिखिलभावविशेषदर्शी ॥ ४० ॥ त्वं तीर्थकृत्सकलपापमलापहारि
__ सद्धर्मतीर्थविमलीकरणैकनिष्ठः । त्वं मन्त्रकृन्निखिलपापविषापहारि
पुण्यश्रुति प्रवरमन्त्रविधानचुञ्चः ॥ ४१ ॥ त्वामामनन्ति मुनयः पुरुषं पुराणं
त्वां प्राहुरच्युतमृषीश्वरमक्षद्धिम् । तस्माद्भवान्तक भवन्तमचिन्त्ययोगं
योगीश्वरं जगदुपास्यमुपास्महे स्म ॥ ४२ ॥ तुभ्यं नमः सकलघातिमलव्यपाय
संभूतकेवलमयामललोचनाय । तुभ्यं नमो दुरितबन्धनशृङ्खलानां
छेत्रे भवार्गलमिदे जिनकुञ्जराय ॥ ४३ ॥ तुभ्यं नमस्त्रिभुवनैकपितामहाय
तुभ्यं नमः परमनिर्वृतिकारणाय । तुभ्यं नमोऽधिगुरवे गुरवे गुणौधै
स्तुभ्यं नमो विदितविश्वजगत्त्रयाय ॥ ४४ ॥ इत्युच्चकैः स्तुतिमुदारगुणानुरागा
___दस्माभिरीश रचितां त्वयि चित्रवर्णाम् । देव प्रसीद परमेश्वर भक्तिपूतां
पादार्पितां स्रजमिवानुगृहाण चार्वीम् ॥ ४५ ॥ त्वामीमहे जिन भवन्तमनुस्मराम
स्त्वां कुड्मलीकृतकरा वयमानमामः । त्वत्संस्तुतावुपचितं यदिहाद्य पुण्यं
तेनास्तु भक्तिरमला त्वयि नः प्रसन्ना ॥ ४६ ॥