Book Title: Bruhad Nirgranth Stutimani Manjusha Part 01
Author(s): M A Dhaky, Jitendra B Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
(३८)
श्री आदिपुराणान्तर्गता द्वात्रिंशदिन्द्रकारिता: 'श्रीऋषभजिनस्तुतिः '
(प्रायः ईस्वी ८२५-८३५)
(प्रतिमाक्षरावृत्तम्)
जिननाथसंस्तवकृतौ भवतो वयमुद्यताः स्म गुणरत्ननिधेः । विधियोऽपि मन्दवचसोऽपि ननु त्वयि भक्तिरेव फलतीष्टफलम् ॥ १ ॥
मतिशक्तिसारकृतवाग्विभवस्त्वयि भक्तिमेव वयमातनुमः । अमृताम्बुधेर्जलमलं न पुमान्निखिलं प्रपातुमिति किं न पिबेत् ॥ २ ॥
क्व वयं जडाः क्व च गुणाम्बुनिधिस्तव देव पाररहितः परमः । इति जानतोऽपि जिन सम्प्रति नस्त्वयि भक्तिरेव मुखरीकुरुते ॥ ३ ॥
गणभृद्भिरप्यगणिताननणूंस्तव सद्गुणान्वयमभीष्टुमहे । किल चित्रमेतदथवा प्रभुतां तव संश्रितः किमिव नेशिशिषुः ॥ ४ ॥ (द्रुतविलम्बितवृत्तम्)
तदियमीडिडिषन् विदधाति नस्त्वयि निरूढतरा जिननिश्चला । प्रसृतभक्तिपारगुणोदया स्तुतिपथेऽद्य ततो वयमुद्यताः ॥ ५ ॥ त्वमसि विश्वहगीश्वर विश्वसृद् त्वमसि विश्वगुणाम्बुधिरक्षयः । त्वमसि देव जगद्धितशासनः स्तुतिमतोऽनुगृहाण जिनेश नः ॥ ६ ॥ तव जनार्क विभान्ति गुणांशवः सकलकर्मकलङ्कनिविनिःसृताः । घनवियोगविनिर्मलमूर्तयो दिनमणेरिव भासुरभानवः ॥ ७ ॥
गुणमणींस्त्वमनन्ततयान्वितान् जिन समुद्वहसेऽतिविनिर्मलान् । जलधिरात्मगभीरजलाश्रितानिव मणीनमलाननणुत्विषः ॥ ८ ॥
त्वमिनसंसृतिवल्लरिकामिमामतितरामुरुदुःखफलप्रदाम् । जननमृत्युजराकुसुमाचितां शमकरैर्भवन्नुदपीपटः ॥ ९ ॥

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286