Book Title: Anusandhan 2004 12 SrNo 30
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 11
________________ अनुसंधान-३० श्रीशलेश्वरपार्हिन् विवस्वानेष शाश्वतः । यत्प्रभावाद्धर्मलाभेऽधिकारः प्रथमोऽभवत् ॥२५॥ प्रथमाधिकार पुष्पिका इति श्रीधर्मलाभे महोपाध्यायमेघविजयगणि-प्रकटीकृते प्रथमोऽधिकारः सम्पूर्णः ॥ (७ ए) द्वितीयाधिकार मंगलाचरण नत्वा श्रीपरमं ज्योतिःस्वरूपं पार्श्वमीश्वरम् । अज्ञातजन्मनः पुंसो धर्मलाभं निदर्शये ॥१॥ हस्तसंजीवनग्रन्थ-वृत्तौ श्लोकचतुष्टयम् । इष्टोपदिष्टं तद्व्याख्या सोदाहरणमुच्यते ॥२।। द्वितीयाधिकार प्रशस्ति इत्येवं भुवनेश्वरस्य भगवत्पार्श्वस्य नाम्नः स्फुरत्सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया ॥ मन्त्राध्यक्षवणिक्षु पारस इति ख्यातस्य लक्ष्मीपतेस्तत्राभूदधिकार एष यशसां हेतुर्द्वितीयः श्रिये ॥१॥ इति श्रीधर्मलाभे शास्त्रे महोपाध्यायमेघविजयगणिना प्रकटीकृते द्वितीयोऽधिकारः ॥ (१२ बी) तृतीयाधिकार मंगलाचरण अथाधिकारः पुरुषोत्तमस्य प्रारभ्यते केशवलभ्यनाम्ना । पार्श्वप्रभोः शाश्वतभास्वतोऽस्मिन् शङ्केश्वरस्य प्रणिधानधाम्ना ॥१॥ तृतीयाधिकार प्रशस्ति इत्येवं पुरुषोत्तमस्य भगवत्पार्श्वस्य शकेश्वरस्याह्वानस्य निवेशनेन विदितः श्रीकेशवस्याप्ययम् ॥ सम्बन्धात् समसाधि साधिकधिया श्रीधर्मलाभो मया तत्राभूदधिकार एष यशसां हेतुस्तृतीयः श्रिये ॥१॥ (१६ ए) चतुर्थाधिकार मंगलाचरण अथाधिकारः प्रारभ्यः श्रीपार्श्वेशप्रभावतः । श्रीमदुत्तमचन्द्रस्य वाङ्मयाचिर्बलान्मया ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86